________________ नैषधीयचरितं महाकाव्यम् _ टिप्पणी-प्रतिच्छायिकया = प्रतिच्छाया एव प्रतिच्छायिका, तया प्रतिच्छाया + कः ( स्वार्थ में )+टाप् + टा। "प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः" इस सूत्रसे आकारके स्थानमें इकार / आलोकि = आङ्+लोक+ णिच् + लुङ् ( कर्ममें )+त / हारिद्रभङ्गाय-हरिद्राया अयं हारिद्रः, हरिद्रा+ अण् / हारिद्रस्य भङ्गः, तस्मै ( ष० त० ) / वितीर्णभङ्ग = वितीर्णो भङ्गो येन तत् (बहु० ) / इस पद्यसे नलके लोकोत्तर सौन्दर्यकी सूचना मिलती है // 45 // भवनवृश्यः प्रतिबिम्बदेहव्यूहं वितन्वन् मणिकुट्टिमेषु / पुरं परस्य प्रविशन् वियोगी योगीव चित्रं स रराज राजा // 46 // अन्वयः-वियोगी स राजा अदृश्यो भवन् मणिकुट्टिमेषु प्रतिबिम्बदेहव्यूह वितन्वन्, (तथा ) परस्य पुरं प्रविशन् योगी इव रराज चित्रम् // 46 // व्याख्या-वियोगी = विरही अयोगी च, सः=पूर्वोक्तः, राजा नल:, अदृश्यो भवन् =अदर्शनीयो भवन, मणिकुट्टिमेषु = रत्लनिबद्धभूमिषु, प्रतिबिम्बदेहव्यूहं = प्रतिच्छायाशरीरसमूह, वितन्वन् = सम्पादयन्, ( योगिपक्षे प्रतिबिम्बदेहव्यूह = बहुयोगशरीरसमूह, वितन्वन् = युगपत् कल्पयन् ) तथा परस्य = अन्यस्य राज्ञः, पुरं = नगरं, ( योगिपक्षे )-परस्य अन्यस्य जीवस्य, पुरं = शरीरं, परकायमिति भावः / प्रविशन् = प्रवेशं कुर्वन्, योगी इव अणिमादिसिद्धिमान् इव, रराज- शुशुभे / चित्रम् = आश्चर्यम् // 46 // अनुवादः-वियोगी वे राजा ( नल ) अदृश्य होते हुए, जैसे अणिमा आदि सिद्धिवाला योगी अदृश्य होकर एक ही बार अनेक शरीरोंका विस्तार करता हुआ दूसरे जीवके शरीरमें प्रवेश करता है वैसे ही रत्ननिबद्ध भूमिमें प्रतिबिम्ब शरीरोंको फैलाते हुए दूसरे ( भीम ) के नगरमें प्रवेश कर योगीके समान शोभित हुए-आश्चर्य है / / 46 // टिप्पणी-वियोगी = वियोग + इनिः + सु। अदृश्यः = न दृश्यः ( नत्र० ) / मणिकुट्टिमेष = मणिनिबद्धाः कुट्टिमाः, तेषु (मध्यमपदलोपी स०)। प्रतिबिम्बदेहव्यूह = प्रतिबिम्बश्च ते देहाः (क० धा० ), तेषां व्यूहः, तम् ( 10 त० ) / वितन्वन् = वि+तनु+लट् ( शतृ )+ सु / पुरं = "पुरं पुरि शरीरे च" इति विश्वः / रराज = राज+लिट् +तिप् ( णल)। इस पद्यमें उपमा अलङ्कार है / / 46 // पुमानिवाऽस्पशि मया धमन्स्या, छाया मया पुंस इव व्यलोकि / अवनिवाऽतकि मयाऽपि किश्चिदिति स्म स स्त्रंणगिरः शृणोति // 47 //