________________ षष्ठः सर्गः "यद्योपितः संमुखमागताया अन्याऽपदेशाद् व्रजतो नरस्य / . ___ गात्रेण गात्रं घटते तदेतदालिङ्गनं स्पृष्टकमाहुरार्याः / ___ अर्थात् संमुख आई हुई स्त्रीके शरीरसे दूसरे बहानेसे चलते हुए पुरुषका शरीर जो संघटित होता है उसे "स्पृष्टक" नामका आलिङ्गन कहते हैं / अगात् = इण् + लुङ + तिप / धरारजःस्थे = धराया रजः ( ष० त०), तस्मिन् तिष्ठतीति तस्मिन्, धरारजः+ स्था+क: ( उपपद० ) + डि। निपत्य = नि+पत् + क्त्वा ( ल्यप् ) / प्रसीद = प्र+ सद् + लोट् + सिप् / अवादीत् = वद् + लुङ्+तिप् // 35 // भ्रमन्नमुष्यामुपकारिकायामायास्य भैमोविरहात् ऋशीयान् / असो महः सोधपरम्पराणां व्यधत्त विश्रान्तिमपत्यकासु / / 36 // अन्वयः-भैमीविरहात् क्रशीयान् असौ अमुष्याम् उपकारिकायां भ्रमन् आयास्य मुहुः सौधपरम्पराणाम् उपत्यकासु विश्रान्ति व्यधत्त / / 36 // व्याख्या-भैमीविरहात् = दमयन्तीवियोगात्, क्रशीयान् = कृशतर:, असौ = नलः, अमुष्याम, उपकारिकायां = राजसद्मनि, भ्रमन् = सञ्चरन्, आयास्य = परिश्रम्य, मुहुः वारं-वारम्, सौधपरम्पराणां = राजसदनावलीनाम् उपत्यकासु = आसन्नभूमिषु, विश्रान्ति = विश्राम, व्यधत्त = विहितवान्, विश्रान्तोऽभूदित्यर्थः // 36 // अनुवादः-दमयन्तीके वियोगसे अत्यन्त कृश नल, राजाके महल में घूमते हुए थककर वारंवार राजभवनींके निकट भूमियोंमें विश्रान्त हो गये // 36 // टिप्पणी-भैमीविरहात् = भैम्या विरहः तस्मात् (प० त० ) / क्रशीयान् = अतिशयेन कृशः, कृश + ईयसुन् + सुः, “र शृतोहलादेर्लघोः” इस सूत्रसे 'ऋ' के स्थानमें "र" आदेश / सौधपरम्पराणां = सीधानां परम्पराः, तासाम् (ष० त० ) / उपत्यकासु = "उपाधिभ्यां त्यकन्नासन्नाऽऽरूढयो:' इस सूत्रसे त्यकन् / उप+त्यकन् + टाप् + सुप् / यहाँपर सौधोंकी ऊँचाईसे पर्वतमें सदृशता होनेसे यह लाक्षणिक प्रयोग किया गया है। विश्रान्ति = वि+श्रम् + क्तिन् + अम् / व्यधत्त = वि+धाञ्+लड+त.। नारायण पण्डितने "उप यकाम" इसके स्थानमें “अधित्यकासु" ऐसा पाठ माना है, उसका "उर्वभूमिपु" यह पर्याय है और ऊँची भूमियोंमें यह अर्थ करना चाहिए / / 36 / / उल्लिख्य हंसेन दले नलिन्यास्तस्मै यथाऽदशि तथैव भैमी / तेनाऽभिलिख्योपहृतस्वहारा कस्या न दृष्टाऽजनि विस्मयाय ? // 37 //