________________ नैषधीयचरितं महाकाव्यम् __ मन्वयः-सुदृशः तच्छायरूपाऽहितमोहलोला: अदृश्यात् अपि तस्मात् न अतिबिभ्युः / ( तथाहि ) आदृतमन्मथाऽऽज्ञाः ( सत्यः ) स्वान् प्राणान् अपि तृणानि मन्यन्त एव // 32 // व्याख्या-सुदशः = नार्यः, तच्छायरूपाहितमोहलोला: = नलप्रतिविम्वसौन्दर्यजनितचित्तभ्रमाऽऽसक्ताः ( सत्यः ), अदृश्यात् अपि = अदर्शनीयात् अपि, तस्मात् = नलात् भयहेतोः, न अतिविभ्युः = न अतिभयं प्रापुः / शृङ्गाररसेन भयानकरसस्तिरकृत इति भावः / तथा हि आदृतमन्मथाज्ञाः = सम्मानितमदनादेशाः, मन्मथाऽधीना इति भावः, तादृश्यः = सत्यः, स्वान् = स्वकीयान्, प्राणान् अपि = असून् अपि, तृणानि = तृणतुल्यान्, मन्यन्त एव = विमृशन्ति एव // 32 // अनुवाद:-स्त्रियाँ नलके प्रतिविम्बके सोन्दर्यसे उत्पन्न चित्तभ्रमसे आसक्त होती हुई अदर्शनीय नलसे बहुत नहीं डरीं। वे कामदेवके अधीन होती हुई अपने प्राणोंको भी तृणके समान समझने लगीं // 32 // . टिप्पणी-सुदशः = शोभने दृशौ यासां ताः ( बहु 0 ) / तच्छायरूपाऽऽहितमोहलोला: = तस्य छाया तच्छायम् ( प० त० ), तस्य रूपम् ( प० त० ), तेन आहितः (तृ० त० ), स चाऽसौ मोहः (क० धा० ), तेन लोला: (तृ० त०), "लोलश्चलसतृप्णयोः" इत्यमरः / अतिविभ्युः = अति+भी+ लिट् + झि: ( उस् ) / आदतमन्मथाऽऽज्ञाः = मन्मथस्य आज्ञा (10 त०)। आदता मन्मथाऽज्ञा याभिः ताः ( वह० ), प्राणान् = "मन्यकर्मण्यनादरे विभापाऽप्राणिपु” इस सूत्रसे चतुर्थीके वैकल्पिक होनेसे द्वितीया / मन्यन्ते = मन+लट् + झः / प्राणोंको तृणवत् समझकर नलके समागममें सतृष्ण उन स्त्रियोंको उनसे डर क्यों होता, यह तात्पर्य है // 32 // जागत्ति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन् विससर्प कम्पः / द्रुतं गते तत्पशब्दभीत्या स्वहस्तितश्चारुवृशां परं सः।। 33 // अन्वयः-पुरा तच्छायदृशां चारुदृशां यः कम्पः जागति, तस्मिन् स्पृप्टे सति विससर्प / स द्रुतं गते तत्पदशब्दभीत्या परं स्वहस्तितः // 33 // व्याख्या-पुरा-पूर्व, तच्छायदृशां = नलप्रतिविम्बदर्शिनीनां, चारुदृशां = सुन्दरीणां, यः, कम्पः = वेपथुः जाति = स्फुरति, तस्मिन्नले, स्पृष्टे सति आमृष्टे सति, विसमर्थ = प्रससार, कम्प इति शेपः / सः = कम्पः, द्रुतं = शीघ्र, गते = अपसृते, नल इति शेपः। तत्पदशब्दभीत्या = नलचरणध्वानभयेन,