________________ षष्ठः सर्ग। टिप्पणी-छायामयः = छाया+ मयट् +सुः / प्रैक्षि ईक्ष + लुङ् (कर्ममें) +त / गच्छन् = गम् + लट् ( शतृ )+सुः / ईक्ष्यमाणः = ईक्ष् + लट् (कर्ममें) ( शानच् )+सुः / तच्चित्तथा = स चित्ते यस्याः सा, तया ( व्यधि० बहु०)। प्रविष्ट: = प्र+विश् + क्तः + सुः / निरचायि = निर्+चि+लुङ् ( कर्ममें )+ त // 30 // तच्छायसौन्दर्यनिपीतधर्याः प्रत्येकमालिङ्गदम रतीशः / रतिप्रतिद्वन्द्वतमासु नूनं नाऽभूषु निर्णीतरतिः कथञ्चित् // 31 // अन्वयः-रतीशः तच्छायसौन्दर्यनिपीतधैर्याः अमू: प्रत्येकम् आलिङ्गत्, रतिप्रतिद्वन्द्वतमासु अमूषु स कथञ्चित् निर्णीतरतिः न अभूत् नूनम् // 31 // व्याख्या-रतीशः = कामः, तच्छायसौन्दर्यनिपीतधेर्याः = नलप्रतिबिम्बमञ्जुत्वाऽपहृतधीरभावाः, अमूः - नारीः, प्रत्येकम्-एककाम् एव, आलिङ्गत् = आलिङ्गितवान्, परं रतिप्रतिद्वन्द्वतमासु = रतिसदृशीषु, अमूषु = नारीषु मध्ये, सः = कामः, कथञ्चित् = केनाऽपि प्रकारेण, निर्णीतरतिः = निश्चितनिजपत्नीकः, न अभूत-न संवत्तः, नूनम्, अन्यथा कथं प्रत्येकमालिङ्गेदित्यर्थः / सर्वास्वपि मदनविकारः प्रादुर्भूत इति तात्पर्यम् // 31 // अनुवादः-कामदेवने नलके प्रतिबिम्बके सौन्दर्यसे धर्यरहित उन स्त्रियोंमें प्रत्येकका आलिङ्गन किया परन्तु रतिके सदृश उन स्त्रियोंके बीचमें किसी भी प्रकारसे कामदेव रतिका निश्चय नहीं कर सका // 31 // टिप्पणी-रतीशः = रतेः ईशः (10 त० ) / तच्छायसौन्दर्यनिपीतधैर्या:= तस्य छाया तच्छायम् ( ष० त० ) "विभाषा सेनासुराच्छायाशालानिशानाम्" इससे नपुंसकलिङ्गता। तच्छायस्य सौन्दर्यम् ( 10 त० ), निपीतं धैर्य यासां ता: ( बहु० ) / तच्छायसौन्दर्येण निपीतधर्याः, ताः ( तृ० त०)। रतिप्रतिद्वन्द्वतमासु = अतिशयेन प्रतिद्वन्द्वा: प्रतिद्वन्द्वतमाः (प्रतिद्वन्द्व + तमप् + टाप् ) / रतेः प्रतिद्वन्द्वतमाः तासु ( 10 त०) / निर्णीतरतिः = निर्णीता रतिः येन सः ( बहु 0 / ) अभूत् = भू+ लुङ तिप् / कामदेव उन स्त्रियोंमें रतिका निश्चय करता तो क्यों प्रत्येकको आलिङ्गन करता ? नलके प्रतिबिम्ब को देखने से सब स्त्रियोंमें काम विकार उत्पन्न हुआ, यह भाव है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 31 // तस्माददृश्यादपि नाऽतिबिभ्युस्तच्छायरूपाऽऽहितमोहलोलाः / मन्यन्त एवाऽमृतमन्मथाज्ञाः प्राणानपि स्वान् सुदृशस्तृणानि // 32 //