________________ नैषधीयचरितं महाकाव्यम् .. अन्वयः–स पथि कयाचित् कन्दुकेन हतः / कयाऽपि संघटय करजः भिन्नः / कयाचन कुचकुङ्कमेन अक्तः, ( एवम् ) स ताभिः संयुक्तकल्पः बभूव // 29 / / व्याख्या—सः = नलः, पथि-मार्गे, कयाचित् = नार्या, कन्दुकेन = गेन्दुकेन, हतः = ताडितः / कयाऽपि = नार्या, संघटय =अभिहत्य, करजः = नखः, भिन्न = विदारितः, कयाचन = नार्या, कुचकुंङ कुमेन = स्तनकाश्मीरेण, अक्तः = लिप्तः / एवं सः = नलः, ताभिः = पूर्वोक्ताभिर्नारीभिः, संभुक्तकल्पः = उपभुक्तसदृशः, बभूव = संजातः // 29 // ___ अनुवादः-नल मार्गमें किसा स्त्रीसे गेंदसे ताडित हुए, किसी स्त्रीसे ठोकर खाकर नाखूनोंसे विदारित हुए और किसी स्त्रीके स्तनोंके केसरसे लिप्त हो गये, इस प्रकार वे उन स्त्रियोंसे उपभुक्तके सदृश हुए // 29 // . टिप्पणी-हतः = हन् + क्तः ( कर्ममें )+ सुः / संघटय = सं+घट+ क्त्वा ( ल्यप् ) / करजः = कर+जन्+डः, ( उपपद० )+भिस् / भिन्नः = भिद् + क्तः + सुः / कुचंकुङ्कुमेन = कुचयोः कुङ्कुमः, तेन ( ष० त० ) अक्तः = अजू+ क्तः ( कर्ममें )+ सुः // 29 // छायामयः क्षि कयाऽपि हारे निजे स गच्छन्नथ नेक्ष्यमाणः / तच्चित्तयाऽन्तनिरचायि चार स्वस्यैव तन्व्या हृदयं प्रविष्टः // 30 // अन्वयः–कयाऽपि निजे हारे छायामयः स प्रैक्षि, अथ गच्छन् (अत एव) न ईक्ष्यमाणः ( सन् ) तच्चित्तया तन्व्या स्वस्य एव हृदयं प्रविष्ट इति अन्तः चारु निरचायि // 30 // व्याख्या–कयाऽपि = नार्या, निजे = स्वकीये, हारे = मौक्तिकमालायां, छायामयः - प्रतिबिम्बरूपः, सः = नलः, प्रेक्षि = प्रेक्षितः, अथ = अनन्तरं, गच्छन् = अपसरन्, अत एव न ईक्ष्यमाणः = अनिरीक्ष्यमाणः सन्, तच्चित्तया चित्तस्थितनलया, "तच्चिन्तया” इति पाठे नलचिन्तया इत्यर्थः / तन्व्या = नार्या, स्वस्य एव = आत्मन एव, हृदयं प्रविष्टः = हृदये कृतप्रवेशः, इति = एवम्, अन्तः = अन्तःकरणे, चारु = साधु, निरचायि = निश्चितः // 30 // ___ अनुवादः-किसी स्त्रीने अपने हारमें प्रतिबिम्बरूप नलको देखा / तब जाते हुए उनको न देखकर अपने चित्तमे नलके रहनेसे उस स्त्रीने नलने मेरे ही हृदयमें प्रवेश किया है, इस प्रकारसे अपने अन्त:करणमें अच्छी तरह निश्चय किया // 30 //