________________ नैषधीयचरितं महाकाव्यम् ____ व्याख्या-मीलन् = निमीलितनयनः, सः = नल:, अभिमुखाऽऽगताभ्याम्= अन्योन्यसंमुखप्राप्ताभ्यां, स्तनसाऽन्तराभ्यां = पयोधरव्यवहिताभ्यां, काभ्यां चित्स्त्रीभ्यां, निपीड्य = मध्ये निरुध्य, धतु-ग्रहीतुं, न शेके = न. शक्यो बभूव / सः = नलः, पश्चात् = पश्चिमभागे, अपेतः = अपसृतः, स्वाऽङ्गानि = निजाऽवयवान्, विजगौ = निनिन्द, परस्त्रीस्पर्शदोषादिति शेषः / ते = स्त्रियौ, पूनः, पुमङ्गसङ्गोत्पुलके = पुमङ्गसङ्गेन ( पुरुषाऽङ्गसम्पर्केण ) उत्पुलके (रोमाञ्चिते) बभूवतुरिति शेषः // 21 // _____ अनुवादः-आँखोंको मू दे हुए नलको परस्पर संमुख आयी हुई स्तनोंसे व्यवहित दो स्त्रियाँ नहीं पकड़ सकी। पीछे हटे हुए नलने स्त्री-संसर्गके कारण अपने अङ्गोंकी निन्दा की। परन्तु वे दोनों स्त्रियाँ पुरुषके अङ्गसम्पर्कसे रोमाञ्चित हो गयीं // 21 // टिप्पणी-मीलन् = मील+ लट् ( शतृ ) + सुः / अभिमुखागताभ्याम् = अभिमुखम् आगते, ताभ्याम् ( सुप्सुपा० ) / स्तनसाऽन्तराभ्याम् = अन्तरेण सहिते सान्तरे ( तुल्ययोगबहु० ) / स्तनाभ्यां सान्तरे, ताभ्याम् ( तृ० त० ) / निपीड्य = नि+पीड+ क्त्वा ( ल्यप् ) / धतु = धृज +तुमुन्, शेके शक + लिट ( कर्ममें )+त। स्वाऽङ्गानि = स्वस्य अङ्गानि, तानि (ष० त० ) / विजगौ=वि+ग+ लिट् + तिए (णल ) / पुमङ्गसङ्गोत्पुलके = उद्गताः पलकाः ( रोमाञ्चाः ) ययोस्ते उत्पुलके ( बहु० ) / अङ्गस्य सङ्गः ( 10 त० ) पुंसः अङ्गसङ्गः ( 10 त० ), तेन उत्पुलके ( तृ० त० ) / इस पद्यमें भावोदय अलङ्कार है // 21 // निमीलनस्पष्टविलोकनाभ्यां कथितस्ताः कलयन् कटाक्षः। स रागवीव भृशं ललम्जे, स्वतः सतां ह्री परतोऽपि गुर्वी // 22 // भन्वयः-निमीलनस्पष्टविलोकनाभ्यां कथितः स ताः कटाक्षः कलयन् रागदशी इव भृशं ललज्जे / सतां परतः अपि स्वत एव ह्रीः गुर्वी // 22 // व्याख्या निमीलनस्पष्टविलोकनाभ्यां = नयनमुद्रणव्यक्तदर्शनाभ्यां, कदथितः = पीडितः, सः = नलः, ताः = स्त्रीः, कटाक्षः = नयनप्रान्तभागः, कलयन् = अवलोकयन्, रागदी इव = अनुरागदर्शक इव, भृशम् अत्यथं, ललज्जे = लज्जितः / सतां = सत्पुरुषाणां, परतः अपि = अन्यस्मात् अपि, स्वत एव = आत्मत एव, ह्रीः = लज्जा, गुवी =महती, भवतीति शेषः // 22 //