________________ षष्ठः सर्गः कायेन ) सारं ( श्रेष्ठम् ) ( तृ० त० ) / बन्धुं = बन्ध+तुमुन् / इस पद्यमें नेत्र आदिमें हरिणत्व आदिका आरोप शाब्द और कामदेवमें व्याधत्वका आरोप आर्थ है अतः एकदेशविवर्ति रूपक अलङ्कार है // 19 // दोर्मूलमालोक्य कचं शरुत्सोस्ततः कुचो तावनुलेपयन्त्याः / नाभीमर्थष इलथवाससोऽनुमिमील दिक्षु क्रमकृष्टचक्षुः // 20 // ___ अन्वयः-एषः कचं रुरुत्सोः दोर्मूलम् आलोक्य ततः कुचौ अनुलेपयन्त्याः तौ आलोक्य अथ श्लथवाससः नाभीम् आलोक्य अनु दिक्षु क्रमकृष्टचक्षुः ( सन् ) मिमील // 20 // व्यास्या-एषः = नल:, कचं = केशकलापं, रुरुत्सो: बन्दुम् इच्छोः, कस्याश्चित्, दोर्मूलं = बाहुमूलम्, आलोक्य-दृष्ट्वा, ततः = अनन्तरं, कुचौ = स्तनौ, अनुलेपयन्त्याः = विलेपयन्त्याः, तौ = कुचौ, आलोक्य = दृष्ट्वा अथ अनन्तरं, श्लथवाससः = स्रस्तवसनायाः, नाभी = नाभिप्रदेशम्, आलोक्य दृष्ट्वा, अनु = अनन्तरं, दिक्षु = आशासु, पुरःपार्श्वभागेषु, क्रमकृष्टचक्षुः क्रमसमाकृष्टनयनः सन, मिमील=निमीलितनयनो बभूव / / 20 // अनुवादः-नलने केशोंको बाँधनेकी इच्छा करनेवाली किसी स्त्रीका बाहुमूल देखकर, तब दोनों कुचोंमें अनुलेप करती हुई किसो स्त्रीके कुचोंको देखकर, तब शिथिल वस्त्रवाली किसी स्त्रीकी नाभि देखकर अनन्तर दिशाओंमें क्रमसे नेत्रोंको खींचकर आँखोंको मूद लिया / / 20 // टिप्पणी–रुरुत्सोः = रोद्धम् इच्छुः तस्याः, / रुध् + सन् + उ:+ ङस् / दोर्मूलं = दोषो मूलं, तत्, (10 त० ) / आलोक्य = आङ् + लोक + क्त्वा ( ल्यप् ) / अनुलेपयन्त्याः अनुलेपयतीति, तस्याः / अनु + लिप् + णिच् + लट ( शतृ )+ डीप + ङस् / श्लथवासस:-श्लथं वासो यस्याः , तस्याः (बहु०) / क्रमकृष्टचक्षुः = कृष्टे चक्षुषी येन सः ( बहु० ), क्रमेण कृष्टचक्षुः (तृ० त०) / मिमील = मील+लिट् + तिप् / वहाँ उस तरह इच्छाके अनुसार चेष्टा करनेवाली स्त्रियोंमें पापभीरु नलने आँखोंको मूद लिया, यह भाव है // 20 // मोलन्न शेकेऽभिमुखागताभ्यां धतुनिपीडय स्तनसाऽन्तराभ्याम् / स्वाऽङ्गान्यपेतो विजगी स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते // 21 / / अन्वयः-मीलन् सः अभिमुखाऽगताभ्यां स्तनसाऽन्तराभ्यां निपीड्य धर्तु न शेके / स पश्चात् अपेतः स्वाऽङ्गानि विजगौ / ते पुनः पुमङ्गसङ्गोत्पुलके / / 21 //