________________ नैषधीयचरितं महाकाव्यम् टिप्पणी परिस्प्रष्टुं = परि+स्पृश+तुमुन् / अस्तवस्त्रौ = अस्तं वस्त्र याभ्यां, तौ ( बहु० ) / अक्षान्तपक्षाऽन्तमृगाऽङ्कम् = न क्षान्तः ( नञ्०)। पक्षस्य अन्तः (10 त०)। मृगः अङ्कः यस्य सः ( बहु० ) / पक्षान्ते (पौर्णमास्याम् ) मृगाऽङ्कः ( स० त०)। अक्षान्तः पक्षाऽन्तमृगाङ्को येन तत् (बहु० ) / दधार = धृञ् +लिट् + तिप् ( णल्)। जहाँपर अचेतन वायुकी भी चपलता है वहाँ भी नलकी निर्विकारताके कारण जितेन्द्रियत्व है यह बात यहाँपर दरसाई गयी है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 18 // अन्तापुरे विस्तृतवागुरोऽपि बालाऽवलीनां वलितगुणोधः।। न कालसारं हरिणं तवक्षिद्वन्द्वं प्रभुबन्धुमभून्मनोभिः // 16 // अन्वयः-अन्तपुरे बा ( वा ) लावलीनां वलितः गुणौघः विस्तृतवागुरः अपि मनोभूः तदक्षिद्वन्द्वं कालसारं हरिणं बन्धुं प्रभुः न अभूत् // 19 // व्याख्या-अन्तःपुरे = अवरोधे, बालाऽऽवलीनां = स्त्रीसमूहानां, बवयोरभेदात् वालाऽऽवलीनां - रोमसमूहानां च, वलिनः = पुनः पुनः प्रवृत्तः ( कटाक्षविक्षेपपक्षे ), आवर्तितश्च ( सूत्रपक्षे ), गुणौघः कटाक्षविक्षेपादिसमूहैः ( बालावलीपक्षे ), गुणौघैः = सूत्रसमूहैः ( वालावलीपक्षे ), विस्तृतवागुरः = प्रसारितमृगबन्धनीकः अपि, मनोभूः = कामदेवः ( स एव व्याधः ), तदक्षिद्वन्द्वं = नलनेत्रयुग्मम् एव, कालसारं कनीनिकासारं, कालसाराख्यं च, हरिणं =मृगं, बन्धुम् = आक्रष्टुं ( नलनेत्रपक्षे ), संयन्तुं च ( हरिणपक्षे ), प्रभुः = समर्थः, न अभूत् = नो जातः // 19 // अनुवादः-जैसे रोमपङ्क्तियोंसे बटी हुई रस्सियोंसे बने हुए मृगपाशसे व्याध ( बहेलिया ) कालसार मृगको बाँधनेमें समर्थ होता है, उस तरह अन्तःपुरमें सुन्दरियोंके फैले हुए कटाक्षविक्षेपरूप सूत्रोंसे मृगपाशको फैलाकर कामदेवरूप व्याध नलके काली पुतलियोंवाले नेत्रद्वयरूप मृगको आकृष्ट करनेमें समर्थ नहीं हुआ // 19 // टिप्पणी-बा ( वा ) लावलीनां = बा (वा) लानानाम् आवल्यः, तासाम् (ष० त०)। गुणोघः = गुणानाम् ओघाः, तैः (10 त० ) / विस्तृतवागुरः = विस्तृता वागुरा येन सः ( बहु 0 ), "वागुरा मृगबन्धनी" इत्यमरः / मनोभूः = मनसि भवतीति, मनस्+भू+क्विप्+सुः ( उपपद० ) / तदक्षिद्वन्द्वम् अक्ष्णो र्द्वन्द्वम् (ष० त०), तस्य अक्षिद्वन्द्वं तत् (ष० त०)। कालसारं काल: (कनीनिकालक्षणः), सारः (श्रेष्ठांऽशः) यस्य तत् ( बहु०) (मृगपक्षे)। कालेन (कनीनिका