________________ षष्ठः सर्गः व्याल्या-सः = नल:, विकल्पोपहृतां = भ्रान्त्युपनीतां, प्रियां = दमयन्ती, यावत् = यत्कालं, दिगीशसन्देशं = दिक्पालेन्द्रादिवाचिकम्, अल्पं = स्तोकम्, अजल्पत् = अकथयत्, तावत् = तत्कालम् एव, अदृश्यवाग्भीषितभूरिभीरुभव:अलक्ष्यकर्तृकवाणी वित्रासितबहुभयशीलस्त्रीजनभवः, रवः = कलकलः, तं = नलम् अचेतयत् = अबोधयत् // 17 // ___अनुनाद:-नलने भ्रान्तिसे प्राप्त प्रिया दमयन्तीको जब लोकपाल इन्द्र आदिका कुछ सन्देश कहा, तब अदृश्य व्यक्तिके वचनसे डरी हुई बहुत-सी डरपोक स्त्रियोंसे उत्पन्न कोलाहलने उन्हें सावधान किया / / 17 // टिप्पणी-विकल्पोपहृता = विकल्पेन उपहृता, ताम् (तृ० त० ) / दिगीशसन्देशं = दिशाम् ईशा: ( 10 त० ), तेषां सन्देशः, तम् (10 त० ) / अजल्पत् = जल्प+लङ्+तिप् / अदृश्यवाग्भीषितभूरिभीरुभवः = न दृश्यः अदृश्यः ( नञ् ) / तस्य वाक् ( ष० त० ) / भी+णिच् + षुक् + क्त + जस= भीषिताः, "भियो हेतुभये षुक्” इस सूत्रसे षुक् / भूरयश्च ता भीरवः ( क० धा० ) / अदृश्यवाचो भीषिताः (प० त० ) / अदृश्यवाग्भीषिताश्च ता भूरिभीरवः ( क० धा० ), ताभ्यो भवतीति अदृश्यवाग्भीषितभूरिभीरु भू+ अच् + सुः ( उपपद०)। अचेतयत् = चित् + णिच् + लङ् + तिप् / इस पद्यमें भावोदय अलङ्कार है // 17 // पश्यन् स तस्मिन्मरुताऽपि तन्व्याः स्तनो परिस्प्रष्टुमिवाऽस्तवस्त्रो / अक्षान्तपक्षान्तमगाऽङ्कमास्यं दधार तिर्यग्वलितं विलक्षः // 18 // अन्वयः-स तस्मिन् मरुता अपि परिस्प्रष्टम् इव अस्तवस्त्रो तन्व्याः स्तनौ पश्यन् विलक्षः ( सन् ) अक्षान्तपक्षाऽन्तमृगाऽङ्कम् आस्यं तिर्यक वलितं दधार // 18 // - व्याख्या-सः = नल:, तस्मिन् = अन्तःपुरे, मरुता अपि = वायुना अपि, अचेतनेन अपि, परिस्प्रष्टुम् इव = संस्प्रष्टुम् इव, अस्तवस्त्रो = अपनीतांऽशुको, तन्व्याः कस्याश्चित्सुन्दर्याः, स्तनौ-कुचौ, पश्यन्-विलोकयन् विलक्ष: लज्जा:न्वितः सन्, अक्षान्तपक्षाऽन्तमृगाऽङ्कम् - असोढपौर्णमासीचन्द्रम्, आस्यंमुखं, तिर्यक् = तिरः, वलितं = चालितं = साचीकृतमिति भावः / दधार = धृतवान् // 18 // - अनुवादः-नलने अन्तःपुरमें अचेतन वायुसे भी मानों छूनेके लिए वस्त्रहीन बनाये गये किसी सुन्दरीके स्तनों को देखकर लज्जित होते हुए पूर्णिमाके चन्द्रको न सहनेवाले अपने मुखको तिरछा किया // 18 // ..