________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-अन्यकन्याऽप्सरसः = अन्याश्च ताः कन्याः ( क० धा० ) / अन्यकन्या अप्सरस इव, “उपमितं ब्याघ्रादिभिः सामान्याऽप्रयोगे" इससे उपमितसमास / अलीकभैमीसहदर्शनात् = अलीका चाऽसौ भैमी ( क० धा० ), तस्याः, सहदर्शनं, तस्मात् (ष० त०)। ततः = तद् शब्दसे "आद्यादिभ्य उपसंख्यानम्" इससे सार्वविभक्तिक तसि यहाँपर षष्ठीके अर्थमें हुआ है। भैमीभ्रमस्य = भैभ्या भ्रमः, तस्य ( 10 त० ) / प्रसादात्-हेतुमें पञ्चमी / अलम्भि = लभ+ लु+ ( कर्ममें )+त / दमयन्तीका सादृश्य बिलकुल ही न होनेसे अन्तःपुरकी स्त्रियोंमें दमयन्तीका भ्रम नलको नहीं हुआ यह तात्पर्य है // 15 // भैमीनिराशे हदि मन्मथेन दत्तस्वहस्ताद्विरहाद्विहस्तः॥ स तामलीकामवलोक्य तत्र क्षणावपश्यन् व्यषदद्विबुद्धः // 16 / / / अन्वयः- भैमीनिराशे हृदि मन्मथेन दत्तस्वहस्तात् विरहात् विहस्तः सः - अलीकां ताम् अवलोक्य क्षणात् विबुद्धः तत्र ताम् अपश्यन् व्यषदत् / / 16 // व्याख्या-भैमीनिराशे = दमयन्त्याशारहिते, हृदि = चित्ते, मन्मथेन = कामेन, दत्तस्वहस्तात् = वितीर्णात्मकरात्, दत्ताऽवलम्बादिति भावः, विरहात् = वियोगाद्धेतोः, विहस्तः = विह्वल:, सः = नल:, = अलीकाम् = असत्यरूपां, तां = दमयन्तीम्, अवलोक्य = दृष्ट्वा, क्षणात् = अल्पकालात् एव, विबुद्धः = निवृत्तभ्रमः, सन् तत्र = तस्मिन् स्थाने, तां = दमयन्तीम्, अपश्यन् = अनवलोकयन्, व्यषदत् = विषण्णोऽभूत् // 16 // अनवादः-दमयन्तीमें निराश चित्तमें कामदेवसे अवलम्ब ( सहारा ) दिये गये वियोगसे विह्वल नल, असत्यरूप दमयन्तीको देखकर अल्प कालमें ही भ्रमके हटनेपर वहाँ उनको न देखते हुए विषण्ण हो गये // 16 // टिप्पणी-भैमीनिराशे = भैम्यां निराशं, तस्मिन् ( स० त०)। दत्तस्वहस्तात् = दत्तः स्वः ( स्वकीयः ) हस्तः यस्मै, तस्मात् ( बहु० ) / अवलोक्य : अव+ लोक+क्त्वा ( ल्यप् ) / विबुद्धः = वि+बुध+क्तः+सुः / अपश्यन् 3D न पश्यन् ( नञ् ) / व्यषदत् = वि+सद् + लु+तिप् / “सदिरप्रतेः" इस सूत्रसे षत्व // 16 // प्रियां विकल्पोपहतां स यावद्दिगीशसन्देशमजल्पदल्पम् ! / / अवश्यवाग्भीषितभूरिभीरुभवो रवस्तावदचेतयत्तम् // 17 // अन्वयः–स विकल्पोपहृतां प्रियां यावत् दिगीशसन्देशम् अल्पम् अजल्पत / तावत् अदृश्यवाग्भीषितभूरिभीरुभवः रवः तम् अचेतयत् // 17 //