________________ षष्ठः सर्गः भ्रमाऽसंभवादिति भावः / यद्वा = अथवा, जितशम्बरस्य = शम्बराऽरेः, कामस्येतिभावः। शाम्बरीशिल्पं - मायासृष्टिरूपा, जाता एव - विद्यमाना एव, सा= प्रसिद्धा, भीमसुता = दमयन्ती, नलेन = नैषधेन, दिक्षु सर्वासु काष्ठासु, अलक्षि दृष्टा // 14 // __ अनुवादः-अनादि सृष्टियोंकी परम्परामें अथवा चित्रोंमें देखी गई वा शम्बर दैत्यको जीतनेवाले कामदेवके मायासृष्टिरूप विद्यमान ही उस दमयन्तीको नलने सब दिशाओंमें देखा // 14 // टिप्पणी-अनादिसर्गसृजि = अविद्यमान आदिर्यस्याः . सा अनादि: ( नञ् बहु० ) / सर्गाणां स्रक (ष० त० ) / अनादिश्चाऽसौ सर्गस्रक, तस्याम् ( क० धा० ) / जितशम्बरस्य = जितः शम्बरः ( मायावी दैत्यविशेषः ) येन, तस्य ( बहु०)। "शम्बराऽरिर्मनसिजः" इत्यमरः। शाम्बरी शिल्पं = शम्बरस्य इयं शाम्बरी ( माया ), शम्बर + अण् + डीप / शाम्बर्याः शिल्पम् (ष० त०)। "स्यान्माया शाम्बरी" इत्यमरः / भीमसुता = भीमस्य सुता (ष० त० ) / अलक्षिलक्ष+ लुङ् ( कर्म में )+त। नलसे किये गये मिथ्याभूत दमयन्तीके साक्षात्कारमें जन्मान्तरके अनुभवको वा कामदेवकी मोयाको हेतुके तौरपर उत्प्रेक्षा करनेसे उत्प्रेक्षा अलङ्कार है // 14 // अलीकभैमीसहदर्शनान्न तस्याऽन्यकन्याप्सरसो रसाय / भैमीभ्रमस्यैव ततः प्रसादाद भैमीभ्रमस्तेन न तास्वलम्भि // 15 // अन्वयः-अन्यकन्याऽप्सरसःअलीकभैमी सहदर्शनात् तस्य रसाय न / ततः भैमीभ्रमस्य एव प्रसादात् तेन तासु भैमीभ्रमो न अलम्भि // 15 // व्याख्या-अन्यकन्याऽप्सरसः = अप्सरः सदृश्यः अन्यकुमार्यः / अलीकभैमीसहदर्शनात् = मिथ्यादमयन्तीसहविलोकनात्, तस्य = नलस्य, रसाय = अनुरागाय, न = न अभवन् / मिथ्यादमयन्त्या अपि अन्यकन्यानामपकृष्टत्वादिति भावः / तर्हि किं तुल्यरूपत्वात्तास्वपि भैमीभ्रमो नाऽभूदत आह-भैमीति / तत:तस्य, भैमीभ्रमस्य एव = दमयन्त्या भ्रान्तेः एव, प्रसादात् = अनुग्रहात्, तेन = नलेन, तासु = अन्तःपुरस्थासु अन्यकन्यासु, भैमीभ्रमः = दमयन्तीभ्रान्तिः, न अलम्भि =न प्राप्तः, अत्यन्ताऽसादृश्यादिति भावः // 15 // अनुवादः-अप्सराओंके समान अन्य कुमारियाँ, मिथ्या दमयन्तीके साथ देखनेसे नलके अनुरागके लिए नहीं हुई। दमयन्तीके भ्रमके ही प्रसादसे नलको उन कुमारियोंमें दमयन्तीका भ्रम नहीं हुआ // 15 //