________________ 10 नैषधीयचरितं महाकाव्यम् ( ल्यप् ) द्वारि = "स्त्री द्वारिं प्रतीहारः” इत्यमरः / विस्मयनिस्तरङ्गां = विस्मयेन निस्तरङ्गा, ताम् (तृ० त० ) / जैसे सिंह गर्दन मरोड़कर देखता है वैसे ही राजसिंह नलने भी देखा यह तात्पर्य है // 12 // .. अन्तःपुराऽन्तः स विलोक्य बालां कांचित्समालन्धुमसंवृतोरुम् / निमीलिताक्षः परया भ्रमन्त्या संघट्टमासाद्य चमच्चकार // 13 // __ अन्वयः-सः अन्तःपुराऽन्तः समालब्धुम् असंवृतोरु कांचित् बालां विलोक्य निमीलिताक्षः ( सन् ) भ्रमन्त्या परया संघट्टम् आसाद्य चमच्चकार // 13 // व्याख्या-सः = नल:, अन्तःपुराऽन्तः = अवरोधाऽभ्यन्तरे, समालब्धुम् - उद्वर्तयितुम् असंवतोरुम् = अनाच्छादितसक्थिं, काञ्चित् = कामपि, बालां = स्त्रियं, विलोक्य = दृष्ट्वा, निमीलिताक्षः = मुद्रितनयनः सन्, पराऽङ्गनागुप्ताऽङ्गाऽवलोकनपापभीत्येति शेषः / भ्रमन्त्या = तत्र सञ्चरन्त्या, परया = अन्यया बालया, संघट्टम्, = अभिघातम्, आसाद्य = संप्राप्य, चमच्चकार = चकितो बभूव // 13 // ___ अनुवाद:-नल अन्तःपुरके भीतर अङ्गलेप करनेके लिए ऊरुको खुला करनेवाली किसी स्त्रीको देखकर आँखोंको मूदते हुए नल भ्रमण करती हुई किसी स्त्रीसे ठोकर पाकर चकित हो गये // 13 // टिप्पणी-अन्तःपुराऽन्तः अन्तःपुरस्य अन्तः ( ष० त० ) / समालब्धं - सम् + आङ्+लभ+तुमुन् / असंवृतोरुम् = न संवृतौ ( नञ्० ) असंवृतौ ऊरू यस्याः सा० ताम् ( बहु० ) / सक्थि क्लीबे पुमानूरुः" इत्यमरः / निमीलिताक्षः निमीलिते अक्षिणी येन सः ( बह० ) / "नेक्षेताऽकं न नग्नां स्त्रीम्" इस शास्त्रवचनसे नलने आँखोको मूद लिया यह तात्पर्य है। भ्रमन्त्या = भ्रम+लट् ( शतृ) +ङीप् +टा। आसाद्य = आ+सद्+णिच् + क्त्वा ( ल्यप् ) / चमच्चकार = चमत् + कृ + लिट् + तिप् ( णल ) / "चमत्" यह अनुकरणद्योतक शब्द है // 13 // अनादिसर्गस्रजि वाऽनुभूता चित्रेषु वा भीमसुता नलेन / जातैव यद्वा जितशम्बरस्य सा शाम्बरीशिल्पमलक्षि दिक्ष / 14 // शिल्पं जाता एव सा भीमसुता नलेन दिक्षु अलक्षि // 14 // _____ व्याख्या-अनादिसर्गस्रजि = आदिरहितसृष्टिपरम्परायां, क्वचिज्जन्मान्तरे इत्यर्थः, वा, चित्रेषु = आलेख्येषु, अनुभूता = कृताऽनुभवा, अत्यन्ताऽननुभूतेऽर्थे