________________ षष्ठः सर्ग: व्याख्या-अथ = अनन्तरम्, असौ = नलः, कक्ष्यासु = गृहप्रकोष्ठेषु, रक्षाऽधिकृतैः = रक्षकजनः, अदृष्ट: = अनवलोकितः सन्, भैमी = दमयन्ती, दिदृक्षुः = द्रष्टुमिच्छुः, अत एव दिक्षु = आशासु, चक्षुः = नेत्रं, बहु = भूयिष्ठं, दिशन् = ददानः, विशङ्कः - निर्भयः सन, तां = पूर्वोक्ताम, उपकार्यां - राजसदनम्, अमरेन्द्रकार्यात्-सुराऽधिपप्रयोजनात्, अविशत् = प्रविष्टः // 11 // अनुवादः-तब प्रकोष्ठोंके रक्षक पुरुषोंसे नहीं देखे जाते हुए नलने दमयन्तीको देखनेकी इच्छा कर दिशाओंमें नेत्रको बहुत बार फैलाकर निर्भय होकर श्रेष्ठ देवताओंके प्रयोजनसे राजभवनमें प्रवेश किया // 11 // टिप्पणी-कक्ष्यासु = "कक्ष्या प्रकोष्ठे हादेः" इत्यमरः / रक्षाधिकृतैः = रक्षायाम् अधिकृताः, तैः ( स० त० ) / अदृष्ट: = न दृष्ट: ( नञ् ) / दिदक्षुः = दृश् + सन + उ: / दिशन् = दिश+ लट् ( शतृ )+सुः / विशङ्कः = विगता शङ्का यस्य सः ( बहु० ) / उपकार्याम = "उपकार्या राजसद्मनि" इति विश्वः / अमरेन्द्रकार्यात् = अमराणाम् इन्द्राः (10 त० ), तेषां कार्य, तस्मात् (ष० त० ), हेतुमें पञ्चमी // 11 // अयं क इत्यन्यनिवारकाणां गिरा विभुरि विभुज्य कण्ठम् / दृशं वो विस्मयनिस्तरङ्गां विलवितायामपि राजसिहः // 12 // अन्वयः-विभुः राजसिंहः ( सः ) “अयं कः ?" इति अन्यनिवारकाणां / गिरा कण्ठं विभुज्य विलचितायाम् अपि द्वारि विस्मयनिस्तरङ्गां दृशं दधौ // 12 // - व्याख्या-विभुः = समर्थः, राजसिंहः = राजश्रेष्ठः नलः, अयम् = एषः, लः, इति = एवम्, अन्यनिवारकाणां = नलेतरनिषेधकारिणां रक्षिणां, गिरा - वाक्येन हेतुना, कण्ठं = ग्रीवां, विभुज्य = वक्रीकृत्य, दृष्टोऽस्मि किमिति शङ्कयेति भावः / विलङ्घितायाम् अपि = अतिक्रान्तायाम् अपि, द्वारि = द्वारे, विस्मयनिस्तरङ्गाम् = आश्चर्यनिनिमेषां, दृशं = दृष्टि, दधौ = धृतवान् // 12 // अनुवादः-सामर्थ्यशाली राजसिंह नलने “यह कौन है ?" ऐसे पहरेदारोंके वाक्यसे ग्रीवाको वक्र कर द्वारके लाँघे जानेपर भी आश्चर्यसे निनिमेष दृष्टिको धारण किया // 12 // टिप्पणी-राजसिंहः = राजा सिंह इव (उपमित०)। अन्यनिवारकाणाम्= अन्येषां निवारकाः, तेषाम् (10 त०)। विभुज्य = वि+ भुज् +क्त्वा