________________ षष्ठा सर्गः नलप्रणालीमिलवम्बुजाक्षीसंवादपीयूषपिपासवस्ते / / तवध्ववीक्षाध्यमिवाऽनिमेषा देशस्य तस्याऽऽभरणीबभूवुः॥३॥ अन्वयः- ते नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवः तदध्ववीक्षाऽर्थम् इव अनिमेषाः ( सन्तः ) तस्य देशस्य आभरणीबभूवुः // 3 // व्याख्या-ते- देवाः, नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवः = नैषधजलनिर्गममार्गप्रवहद्भमी ' कथाऽमृतपानेच्छवः सन्तः, तदध्ववीक्षाऽथं = नलमार्गदर्शनाऽर्थम् इव, अनिमेषाः = निमेषव्यापाररहिताः सन्तः, सन्तः, तस्य देशस्यनलनिर्गमप्रदेशस्य, आभरणीबभूवुः, भूषणो बभूवुः नलागमनपर्यन्त तत्रव तस्थुरिति भावः // 3 // ___ अनुवाद:-नलरूप नालीसे बहनेवाले दमयन्ती के संवादरूप अमृतको पीने की इच्छा करनेवाले वे इन्द्र आदि देवता मानों नल के मार्गको देखनेके लिए निमेषव्यापारसे रहित होते हुए नलके निकलने के मार्गके भूषणस्वरूप हो गये // 3 // टिप्पणी नलप्रणालीत्यादिः = नल एव प्रणाली ( रूपक०)। अम्बुजे इव अक्षिणी यस्याः सा अम्बुजाक्षी ( बहु० ), तस्याः संवादः ( ष० त ), स एव पीयूषम् ( रूपक० ) / नलप्रणाल्या मिलत (तृ० त० ) / नलप्रणालीमिलच्च तत् अम्बुजाक्षीसंवादपीयूषं (क० धा० ), तस्य पिपासवः ( 10 त० ), तदध्ववीक्षाऽर्थम् = तस्य अध्वा ( 10 त० ), तस्य वीक्षा ( ष० त० ) / तदध्ववीक्षार्थ इदम् ( चतुर्थीतत्पु० ) / अनिमेषाः अविद्यमाना निमेषा येषां ते (नन, बहु०) / आभरणीबभूवुः = आभरण+वि+भू + लिट् + झि (उस्) / देवता लोग स्वतः अनिमेष हैं, परन्तु नलसे दमयन्तीके संवादरूप अमृत पीनेकी इच्छासे नलके मार्गको देखनेके लिए मानों अनिमेष हो गये, ऐसे कथनसे इस पद्यमें उत्प्रेक्षा अलङ्कार है। जबतक नल का आगमन नहीं होता है तबतक देवता लोग वहीं रहे यह तात्पर्य // 3 // तां कुण्डिनाऽऽख्यापदमात्रगुप्तामिन्द्रस्य भूमेरमरावती सः। मनोरथः सिद्धिमिव क्षणेन रयस्तदीयः पुरमाससाद // 4 // अन्वया-तदीयः स रथः तां कुण्डिनाऽऽख्यापदमात्रगुप्ताम् अमरावती भूमेः इन्द्रस्य पुरं मनोरथः सिद्धिम् इव क्षणेन आससाद // 4 // ___ व्याख्या-तदीयः = नलीयः, सः-प्रसिद्धः, रथः = स्यन्दनः, तां = प्रसिद्धां, कुण्डिनाऽऽख्यापदमात्रगुप्तां = कुण्डिननामपदमात्रच्छन्नाम्, अमरावती = देवराजधानीम्, अमरावतीसदृशीमिति भावः / भूमेः = भुवः, इन्द्रस्य -