________________ नैषधीयचरितं महाकाव्यम् "दित्यदित्यादित्यपत्युत्तरपदाण्यः" इस सूत्रसे ण्य प्रत्यय / दैत्यानाम् अरयः ( देवाः ), (10 त० ) / तेषां पतिः, तस्य (ष० त० ) / दूत्याय% दूतस्य कर्म, तस्मै, दूत शब्दसे “दूतस्य भावकर्मणोः" इस सूत्रसे यत् / रथस्यदस्य= रथस्य स्यदः, तस्य (ष० त०)। भीमभूमीपतिराजधानी = भूम्याः पतिः (ष० त०)। भीमश्चाऽसौ भूमीपतिः (क० धा०) / तस्य राजधानी, ताम् (प०त)। लक्षीचकार = अलक्षं लक्षं यथा सम्पद्यते तथा चकार, लक्ष+च्चि+ + लिट् + तिप् ( णल ) / इस सर्गमें उपजाति छन्द है // 1 // भैम्या समं नाजगद्वियोगं स दूतधर्मे स्थिरधीरधीशः / पयोधिपाने मुनिरन्तरायं * दुर्वारमयोर्वमिवोर्वशेयः // 2 // अन्धयः-अधीशो दूतधर्मे स्थिरधीः स भैभ्या समं वियोगम् और्वशेयो मुनिः पयोधिपाने दुर्वारम् अपि और्वम् इव अन्तरायं न अजगणत् // 2 // व्याख्या-अधीशः = मनोनिग्रहसमर्थः, दूतधर्मे = सन्देशहरकर्मणि, स्थिरधीः = अचलबुद्धिः, सः = नलः, भैम्या = दमयन्त्या, समं = सह, वियोग= विप्रयोगम्, और्वशेयः = उर्वशीपुत्रः, मुनिः = ऋषिः, अगस्त्य इत्यर्थः / पयोधिपाने = समुद्रपाने, दुर्वारं = दुःखेन वारणीयम् अपि, और्वम् इव = बडवाऽनलम् इव, अन्तरायं = विध्नरूपं, न अजगणत =न अमन्यत // 2 // अनुवाद:-जैसे अगस्त्य मुनिने समुद्र को पीनेमें दुःखसे हटाये जानेवाले भी बडवाऽग्निको विघ्नरूप नहीं माना वैसे ही मनको निग्रह करनेमें समर्थ और दूतके कर्ममें स्थिर बुद्धिवाले नलने दमयन्तीके वियोगको विघ्नरूप नहीं माना // 2 // टिप्पणी-दूतधर्मे = दूतस्य धर्मः, तस्मिन् ( 10 त० ) स्थिरधीः= स्थिरा धीर्यस्य सः (बहु०)। भैम्या = “समम्" के योग में तृतीया। “साकं सत्रा समं सह" इत्यमरः / और्वशेयः = उर्वश्या अपत्यं पुमान्, “स्त्रीभ्यो ढक्" इससे ढक प्रत्यय / “और्वशेयः कुम्भयोनिरगस्त्यो विन्ध्यकुट्टन: / इति हलायुधः / पयोधिपाने - पयोधेः पानं तस्मिन् ( ष० त०)। और्वम् - उर्वस्य ( मुनेः) अपत्यं पुमान्, तम्, उर्व + अण् + अम् / अजगणत् = गण+ णिच् + लुङ्+तिप् / एक पक्षमें "अजीगणत" ऐसा रूप भी। जैसे समुद्रपानमें अगस्त्यने बडवाऽग्निको विघ्नस्वरूप नहीं विचार किया वैसे ही देवताओंके दूतकृत्यमें नलने दमयन्तीके वियोगको भी विघ्नस्वरूप नहीं विचार किया यह तात्पर्य है। इस पद्यमें उपमा अलङ्कार है // 2 //