________________ ॥श्रीः // नैषधीयचरितं महाकाव्यम् चन्द्रकलाऽऽख्यया व्याख्यया हिन्धनवादेन च विभूषितम् षष्ठः सर्गः दत्याय दैत्याऽरिपतेः प्रवृत्तो द्विषां निषेद्धा निषषप्रधानम् / स भीमभूमीपतिराजधानी लक्षीचकाराय रथस्यवस्य // 1 // सतां पालने, दुष्कृतां संप्रहाणे, तथा श्रेयसां स्थापने सत्प्रयासः / विलासी सदा नैकया लीलया यो मुकुन्दः स नः कार्यसिद्धि विदध्यात् // 1 // अन्वयः-अथ द्विषां निषेद्धा निषधप्रधानं स दैत्यारिपतेः दूत्याय प्रवृत्तः ( सन् ) रथस्यदस्य भीमभूमीपतिराजधानी लक्षीचकार // 1 // व्याख्या-अथ = दूत्याऽङ्गीकाराऽनन्तरं, द्विषां = शत्रूणां, निषेद्धा = निवारयिता, सः = नलः, दैत्याऽरिपतेः = देवेन्द्रस्य, दूत्याय = दूतकर्मणे, प्रवृत्तः= उद्युक्तः सन्, रथस्यदस्य = स्यन्दनवेगस्य, भीमभूमीपतिराजधानी = कुण्डिननगरी, लझीचकार = लक्ष्यं कृतवान्, गमनं चकारेति भावः // 1 // - अनुवादः-दूत्य स्वीकार करने के अनन्तर शत्रुओंके निवारक निषध देशके राजा नलने दूतकर्म में प्रवृत्त होते हुए रथके वेगको कुण्डिन नगरीके प्रति लक्ष्य किया // 1 // टिप्पणी-द्विषां = द्विषन्ति ते द्विषः, तेषाम् ( द्विष् + क्विप् + आम् ) / "निषेद्धा" इस कृदन्त पदके योग में "कृर्तृकर्मणोः कृति" इस सूत्रसे कर्ममें षष्ठी / निषेद्धा = निषेधतीति, नि+सिध+तृच् + सुः, "उपसर्गात सुनोति." इत्यादि सूत्रसे प्रत्व / निषधप्रधानं = निषधानां ( जनपदानाम् ) प्रधानम् ( मुख्याऽधिपतिः ), ष० त० / “निषधप्रधानः" यह मल्लिनाथसंमत पाठ ठीक नहीं है, प्रधान शब्द नपुंसकलिङ्गमें है, "क्लीबे प्रधानं प्रमुखप्रवेकाऽनुत्तमो. तमाः / " इत्यमरः / दैत्याऽरिपतेः = दितेरपत्यानि पुमांसो दैत्याः, दिति शब्दसे