________________ 186 नैषधीयचरितं महाकाव्यम् ही चन्द्रवंशमें स्थितिवाले आपका मोहसे अभिभाव अयोग्य है, यह अभिप्राय है / इस पद्यमें रूपक अलङ्कार है // 124 // रोहणः किमपि यः कठिनानां, कामधेनुरपि या पशरेव / नेनयोरपि वृथाऽभवदर्थी हा ! विधित्सुरसि वत्स ! किमेतत् // 125 // .: अन्वयः-यो रोहणः (सोऽपि) कठिनानां (मध्ये) किमपि / या कामधेनुः ( साऽपि ) पशुः एव / एनयोः अपि अर्थी वृथा न अभवत् / हे वत्स ! किम् एतत् विधित्सुः असि ? हा ! व्याल्या-यः, रोहणः रोहणनामको मणिनामाकरोऽद्रिः, सोऽपि कठिनानां=कठोराणां पदार्थानां मध्ये, किमपि = कठिनः पदार्थः / या, कामधेनुः=सुरभिः, साऽपि पशु एव= चतुष्पाद एव, परम् एनयोरपि= रोहणकामधेन्वोरपि, पाषाणचतुष्पदयोरपीति भावः, अर्थी = याचकः, वृथा= निष्फलः, न अभवत =नो जातः, हे वत्स-हे वात्सल्यभाजन ! किम्, एतत् = विधित्सुः=चिकीर्षः, असि=विद्यसे? हा !=तव शोच्यत इति भावः / अनुवाद-जो रोहणनामक मणियोंकी खान पर्वत है, वह कठोर पदार्थों में एक कठोर पदार्थ है / जो कामधेनु है, वह भी पशु ( जानवर ) ही है / इनमें भी याचक निष्फल नहीं हुआ। हे वत्स ! तुम यह क्या करना चाहते हो ? हाय ! टिप्पणी-एनयो:=इदम् शब्दके ओस्में "द्वितीयाटोस्स्वेनः" इससे एन आदेश / विधित्सुः विधातुम् इच्छुः, वि+धा + सन् + उ+सु / “हाय ! तुम पशु और पाषाणसे भी गये गुजरे हो" यह तात्पर्य है / / 125 // याचितश्चरयति पय नु धीरः ? प्राणने मणमपि प्रतिमः कः ? / शंसति दिनयनी दृढनिद्रा ब्रानिमेषमिषघूर्णनपूर्णा // 126 // '. अन्वयः-( हे वत्स ! ) धीरो याचितः ( सन् ) क्व नु चिरयति ? ( कुतः ) क्षणम् अपि प्राणने प्रतिभूः कः ? द्रानिमेषमिषघूर्णनपूर्णा द्विनयनी दृढनिद्रां शंसति / व्याल्या-(हे वत्स ! ) धीर:=विद्वान्, याचितः प्रार्थितः सन्, क्व नु= कुत्र नु, चिरयति=विलम्बते ? कुतः क्षणम् अपि = अल्पकालम् अपि, प्राणने जीवने, प्रतिभूः लग्नकः, कः ?=न कोऽपि इति भावः / दानिमेषमिषघूर्णनपूर्णाशीघ्रपक्ष्मपातव्याजघ्रमणपूरिता, विनयनी-नयनद्वयम् एव, दृढनिद्रा चिरस्वापं, मरणमिति भावः, शंसतिसूचयति /