________________ 35 प्रथमः सर्गः (ष० त०)। "विघ्नोऽन्तरायः प्रत्यूहः" इत्यमरः / अलम्भि="डुलभष् प्राप्तो" धातुसे कर्ममें लुङ्, “विभाषा चिण्णमुलोः" इस सूत्रसे नुम् हुआ है। इस पद्यमें मनुष्य-स्त्रियोंकी सब अवस्थाओंमें नलदर्शनका सम्बन्ध न होनेपर भी उसका वर्णन करनेसे अतिशयोक्ति अलङ्कार है।। 29 // न का निशि स्वप्नगतं ददर्श तं, जगाद गोत्रस्खलिते च का न तम् / तदात्मताध्यातषवा रते च का चकार वा न स्वमनोभवोद्भवम् // 30 // अन्वयः--का निशि स्वप्नगतं तं न ददर्श / का च गोत्रस्खलिते तं न जगाद / का च रते तदात्मताध्यातधवा (सती) स्वमनोभवोद्भवं न चकार // 30 // व्याख्या-का % स्त्री, निशि = रात्री, स्वप्नगतं = स्वापप्राप्तं, तं = नलं, न ददर्श = नो दृष्टवती, अपि तु सर्वा अपि ददर्शति भावः। का च = स्त्री, गोत्रस्खलिते = नामविपर्यासे, तं = नलं, न जगाद - नो बभाषे, अपि तु सर्वा एव जगाद इति भावः / का च = स्त्री, रते -सुरतकेली; तदात्मताध्यातधवा = नलरूपचिन्तितभर्तृका सती. स्वमनोभवोद्भवं = निजचित्तकामोत्पत्ति, न चकार -न कृतवती, बपि तु सर्वा एव चकारेति भावः / / 30 // ___अनुवाद:--किस स्त्रीने रातमें स्वप्न में उन्हें नहीं देखा ? किस स्त्रीने नामके उच्चारणकी भ्रान्तिसे उनका नाम नहीं लिया ? किस स्त्रीने रतिक्रीडामें नलके रूपमें अपने पतिकी चिन्ता कर अपने चित्त में कामदेवको प्रकट नहीं किया / टिप्पणी-स्वप्नगतं = स्वप्नं गतः, तम् ( द्वि० त०)। ददर्श = दृश्+ लिट् + तिप् / गोत्रस्खलिते = गोत्रस्य स्खलितं, तस्मिन् (ष० त० ) / "गोयं नाम्न्यचले कुले" इत्यमरः / तदात्मताध्यातधवा = तस्य / नलस्य) आत्मा (स्वरूपम् ) यस्य सः तदात्मा ( व्यधिकरण बहु० ) / तदात्मनोभावस्तदात्मता, तदात्मन् + तल+टाप् / ध्यातः धवः यया सा (बहु०) / "धवः प्रियः पतिर्भर्ता" इत्यमरः / तदात्मतया ध्यातधवा ( त० त० ) स्वमनोभवोद्भवं = स्वस्य मनोभवः / ष० त०)। नस्य उद्भवः, तम् (ष० त० ) चकार = +लिट् + तिप् / इस पद्यमें अतिशयोक्ति अलङ्कार है // 30 // धियाऽस्य योग्याऽहमिति स्वमीक्षितुं करे तमालोक्य सुरूपया धृतः। विहाय भैमीमपदर्पया कया न दर्पण: श्वासमलोमसः कृतः // 31 // -- अन्वयः--भैमी विहाय कया सुरूपया तम् आलोक्य “श्रिया अहम अस्य योग्या" इति स्वम् ईक्षितुं करे धृतः दर्पणः अपदर्पया ( सत्या ) श्वासमलीमसः न कृतः ? / / 31 //