________________ नैषधीयचरितं महाकाम्यम् किया गया है। "कुण्डली गूढपाच्चक्षुःश्रवा, काकोदरः फणी।" इत्यमरः / नः = अस्मद् + आम् ( नस् ) "बहुवचनस्य वस्नसो" इससे नस् आदेश / द्वयं = द्वि+ तयप् ( अयच् ) / तदाकणि - तम् आकर्णयतीति, तद् + अम् + आङ्ग+कर्ण+णिनि+सु / फलाढयजीवितं = फलेन आयम् / तृ० त०), तादृशं जीवितं यस्य तत् ( बहु० ) / तदवीक्षि = वीक्षते तच्छीलं वीक्षि, वि+ ईक्ष + णिनिः ( उपपद० ) न वीक्षि अवीक्षि ( नत्र ) / तस्य अवीक्षि (ष० त० ) / अफलम् = अविद्यमानं फलं यस्य तत् ( नन् बहु० ) / नले = विषय में सप्तमी / आत्मनः = आत्मन+शस् ( कर्म ) / स्तुवन्ति स्म --"ष्टुन स्तुतो" धातुसे "स्म" के योगमें "लट् स्मे" इससे भूतकालमें लट् / निन्दन्ति स्म = "णिदि कुत्सायाम्" धातुसे 'स्म' के योग में पहलेके समान लट् / इस पद्यमें यथासंख्य और वैसी स्तुति और निन्दाके सम्बन्ध न होने पर भी सम्बन्धकी उक्तिसे अतिशयोक्ति इस प्रकार इन दोनों अलङ्कारोंकी संसृष्टि है // 28 // विलोकयन्तीभिरजनभावनावलाद, नेत्रनिमीलनेष्वपि / अलम्भि माभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितः॥ 29 // अन्वयः- अजस्रभावनाबलात् नेत्रनिमीलनेषु अपि अमुं विलोकयन्तीभिः माभिः अमुष्य दर्शने निमेषनिर्मितः विघ्नलंशः अपि न अलम्भि // 29 // ध्याख्या--अजस्रभावनाबलात-निरन्तरचिन्तनशक्तेः, नेगनिमीलनेषु अपिनयन मुद्रणेषु अपि, अमुं = नलं, विलोकयन्तीभिः = पश्यन्तीभिः, मनसेति शेषः / तादशीभिः माभिः = मानुषीभिः स्त्रीभिः, अमुष्य = नलस्य, दर्शने-विलोकने, निमेषनिमितः नेगनिमीलनरचितः, विघ्नलेशः अपि अन्तरायलयः अपि, न अलम्भि = नो लब्धः // 29 // ___अनुवाद:--निरन्तर चिन्तनकी शक्तिसे आँखोंको मदनेपर भी नलको देखने वाली मर्त्यलोककी स्त्रियोंने नलको देखने में निमेषसे उत्पन्न विघ्नका लेश भी नहीं पाया / / 29 // __टिप्पणी--अजस्रभावनाबलात्भावनाया बलम् (ष० त०)। अजस्र ( यथा तथा ) भावनाबलं, तस्मात् (सुप्सुपा०) / हेतुमें पञ्चमी। नेत्रनिमीलनेषुनेत्रयो निमीलनानि, तेषु (ष० त०)। विलोकयन्तीभिःवि+लोक+णिच् + लट् ( शतृ )+ ङोप् / माभिः = मर्त्य शब्दके योपध होनेसे "जातेरस्त्री." इत्यादि सूत्रसे ङोप न होकर सामान्य स्त्रीत्वमें टाप् प्रत्यया दर्शने-दश् + ल्युट् + * डि निमेषनिर्मित: निमेषेण निर्मितः ( तृ० त०)। विघ्नलेशः विघ्नस्य लेशः