________________ पञ्चमः सर्गः ते कूपाः खलु / ते ते ग्रहा दिवि न जाग्रति ? तु कतमो भास्वतः तुलया आस्ते? . व्याख्या-(हे नल !) अधिक्षिति=पृथिव्यां, शतं =बहुसंख्यकाः, भूपाः= राजानः, आसते सन्ति / तत्र त्वं, तोयराशिः=समुद्रः, असि =विद्यसे, ते=भूपाः, कूपाः=उदपानानि, खल, दृष्टान्तेनाऽमुमर्थ साधयति-किं ग्रहा इति / दिवि=आकाशे, ते ते ग्रहाः=चन्द्रादयः, न जाग्रति ?=न प्रकाशन्ते किम् ? तु=किन्तु, कतमः कः, ग्रहः चन्द्रादिः, भास्वतः- सूर्यस्य, तुलया= साम्येन, आस्ते=विद्यते / न कोऽपीति भावः / / अनुवाद-(हे नल ! ) पृथिवीपर सैकड़ों राजा हैं, परन्तु आप समुद्र हैं और वे ( अन्य राजा लोग ) कुएँ हैं। चन्द्र आदि अनेक ग्रह आकाशमें प्रकाशित नहीं हैं क्या ? किन्तु कौन-सा ग्रह सूर्यके समान है ? (कोई नहीं)। टिप्पणी-अधिक्षिति ='क्षिती इति "अव्ययं विभक्ति०" इत्यादि सूत्रसे विभक्तिके अर्थमें अव्ययीभाव / आसते-आस+लट्+झ / तोयराशिः = तोयानां राशिः (10 त० ) / जाग्रति जागृ+लट् + झि / कतमः= किम् +डतम + सु / भास्वतः-भास्+मतुप् + ङस् / अन्य राजाओं और आपमें समुद्र और कुएँके समान बहुत अन्तर ( फर्क) है / जैसे आकाशमें सूर्यके समान कोई ग्रह नहीं है, वैसे ही भूतल में आपके सदृश कोई भी राजा नहीं है, यह इस पद्यका तात्पर्य है / इसमें दृष्टान्त अलङ्कार है / / 100 // विश्वदृश्वनयना वयमेते त्वद्गुणाम्बुधिमगाधमवेमः। स्वामिहैव विनिवेश्य रहस्ये निर्वति न हि लभेमहि सर्वे ? // 101 // अन्वयः-( हे नल ! ) विश्वदृश्वनयना एते वयम् अगाधं त्वद्गुणाम्बुधिम् अवमः / हि इह रहस्ये त्वाम् एव विनिवेश्य सर्वे ( वयम् ) निर्वृति न लभेमहि ? व्याल्या-( हे नल ! ) विश्वदृश्वनयनाः= सर्वदशिनेत्राः, एते समीप तरवर्तिनः, वयम् = इन्द्रादयो देवाः, अगाधं-गम्भीरम्, अतलस्पर्शमिति भावः, त्वद्गुणाम्बुधिं = दयादाक्षिण्यादित्वद्गुणसमुद्रम्, / अवेमः = अवगच्छामः / हि = यस्मात्कारणात्, इह=अस्मिन्, रहस्ये = गोपनीयकृत्ये, त्वाम् एव= भवन्तम् एव, विनिवेश्य नियोज्य, सर्वे=सकलाः, वयम् = इन्द्रादयो देवाः, निर्वृति=सुखं, न लभेमहि =न प्राप्नुमः ? लभेमहि एवेति भावः /