________________ 152 नैषधीयचरितं महाकाव्यम् मिति भावः / यत्-यस्मात्कारणात, नः=अस्माकम्, अत्र=इह, यात्रया= प्रयाणेन, शुभया=कल्याण्या, सफलयेति भावः / अजनि-जातम् / तत् = तस्मात्कारणात्, फलसत्वरया-फले ( शुभपरिणामे ) सत्वस्या (शीघ्रया ), फलार्थिन्येति भावः / तया एव-यात्राया एव का, त्वम्, इदम् एतत्, अध्वनः अर्धम् =अर्धमार्गम्, आगमितो न किम् =प्रापितो न किम् ? अस्मदर्थमेव इदं तवागमनमिति भावः / अनुवाद- "हे नल ! आप कहाँ जायेंगे" ऐसा नहीं कहना चाहिए / जिससे कि हम लोगोंका यहाँ आगमन सफल हुआ, उस कारणसे फलका अभिलाष करनेवाले उस आगमनसे ही आप इस आधे मार्गमें प्राप्त नहीं किये गये हैं क्या ? टिप्पणी-प्रयास्यसि =प्र+या लट् + सिप् / उक्त्वा=ब्रून ( वच् ) +क्त्वा, "अलम्" इस पदके योगमें "अलंखल्बोः प्रतिषेधयोः प्राचां क्त्वा" इस सूत्रसे क्त्वा प्रत्यय / अजनि-जन्+लुङ (भावमें)+च्लि (चिण्)+त। फलसत्वरया=स्वरया सहित सत्वरा ( तुल्ययोगबहु०), फले सत्वरा, तया ( स० त०)। आगमितः=आइ+ गम् + पिच+क्त / हम लोगोंके लिए ही आपका यह आगमन है, यह अभिप्राय है / 75 // एष नैषध ! स दण्डभृदेष ज्वालजालजटिलः स हुताशः / यावसा स मतिरेष च शेषं शासितारमवगच्छ सुराणाम् // 76 // अन्वयः-हे नैषध ! एष सं दण्डभृत् / एष ज्वालजालजटिल: स हुताऽशः / एष च स यादसां पतिः / शेषं (माम्) सुराणां शासितारम् अवगच्छ / व्याख्या-हे नैषध हे नल ! एषः-पुरोवर्ती, स-प्रसिद्धः, दण्डभृत् =यमः / एषः पुरोवर्ती, ज्वालजालजटिल:=अचिःसमूहव्याप्तः, स:प्रसिद्धः, हुताऽशः=अग्निः / एष च=पुरोवर्ती च, सः प्रसिद्धः, यादसां= जलजन्तूनां, पतिः-स्वामी, वरुण इति भावः, अस्तीति शेषः / शेष-शिष्टं, मामिति शेषः / सुराणां = देवानां, शासितारं शासनकर्तारं, देवेन्द्रमिति भावः / अवगच्छ जानीहि / अनुवाद-हे नल ! ये प्रसिद्ध यमराज हैं / वे ज्वालाओंके समूहसे व्याप्त प्रसिद्ध अग्नि हैं। ये जलजन्तुओंके स्वामी प्रसिद्ध वरुण हैं / अवशिष्ट मुझको आप देवताओंके शासक इन्द्र जानिए /