________________ नैषधीयचरितं महाकाव्यम् ___ टिप्पणी--महीभृतः = महीं बिभर्तीति महीभूत, तस्य मही+भृ+क्विप् + ङस् ( उपपद०)। मन्मथश्रिया = मन्मथस्य श्री:, तया (ष० त० ) / तं = "प्रति" के योगमें "अभितःपरितः समयानिकषाहाप्रतियोगेऽपि" इस वार्तिकसे द्वितीया / तत्र = तस्मिन्निति तद् +त्रल् / नृपे = नन् पातीति नृपः तस्मिन्, न+पा+कः ( उपपद० ) जगत्त्रयीभुवां = जगतां त्रयी (ष० त० ), तस्यां भवन्तीति जगत्त्रयीभुवः,तासाम्, जगत्त्रयी+भू+क्विप् / नतभ्रुवां - नते ध्रुवी यासां ता नतध्रुवः, तासाम् (बहु०)। द्विधा = द्वाभ्यां प्रकाराभ्याम् द्विशब्दसे “सख्याया विधार्थे धा" इस सूत्रसे धा प्रत्यय ( अव्यय ) मन्मथविभ्रमः -मन्मथस्य विभ्रमः ( ष० त० ) / "भ्रान्तिमिथ्यामतिभ्रमः" इति "स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा / हेला लीलेत्यमी भावा: क्रियाः शृङ्गारभावजाः // " इत्यमरः / अभवत् = भू+ल+तिप् / यहाँपर तीन भवनोंका स्त्रियों में वैसे दो मन्मथविभ्रमोंके न होनेपर भी वैसे सम्बन्धकी उक्ति होनेसे अतिश. योक्ति और “मन्मथविभ्रम" पदमें श्लेष अलंकार है इस प्रकारसे दो अलंकारोंकी परम्परामें निरपेक्ष स्थिति होनेसे संसृष्टि अलंकार है / / 26 // निमीलनभ्रंशजुषा दशा भृशं निपीय तं यस्त्रिदशीभिरजितः। . अमूस्तमभ्यासभरं विवृण्वते निमेषनिःस्वरधुनाऽपि लोचनैः / / 27 // अन्वय:--त्रिदशीभिः निमीलनभ्रंशजुषा दृशा तं भृशं निपीय यः अर्जितः / अमः अधुना अपि निमेषनिःस्वैः लोचनः तम् अभ्यासभरं विवृण्वते // 27 // व्याख्या--त्रिदशीभिः = देवीभिः, निमीलनभ्रंशजुषा = मुद्रणनिवृत्तिसेविन्या, निमेषव्यापारशून्यया इति भावः / एतादृश्या दशा = दृष्टया, तं = नलं भृशम् = अत्यर्थ, निपीय = पानं कृत्वा, प्रणयाऽतिशयेन दृष्ट्वेति भावः / यः = अभ्यासभरः, अजितः = उपाजितः / अमः = त्रिदश्यः, देव्य इत्यर्थः। अधुना अपि = इदानीम् अपि, निमेषनिःस्वः = निमेषव्यापाररहितः, लोचनैः = नेत्रः, तम् पूर्वोपार्जितम्, अभ्यासभरम् अनुशीलनोत्कर्ष, विवृण्वते-प्रकटयन्ति / 27 / ___ अनुवादः--देवियोंने निनिमेष दृष्टिसे उनको देखकर जो अतिशय अभ्यासको अर्जित किया था वे लोग अभी भी निमेषरहित दृष्टियोंसे रणको अभिव्यक्त कर रही है // 27 // टिप्पणी-त्रिदशीभिः = तिस्रो ( बाल्य कोमारयौवनाख्या ) दशा येषां ते त्रिदशाः ( बहु० ) / त्रिदशानां स्त्रियः त्रिदश्यः, ताभिः "पुंयोगादाख्यायाम्"