________________ 138 .. . नेवधीयचरितं महाकाम्यम् (तृ० त०) / मघोनि शृण्वति - “षष्ठी चाऽनादरे" इस सूत्रमें 'च'के पाठसे . अनादरमें सप्तमी। बभाषे=भाष+लिट् +त। सघृणा घृणया सहिता ( तुल्ययोगबहु० ) / सार्थगुणेन सार्थस्य गुणः, तेन (प० त०)। "सङ्घसाथी तु जन्तुभिः" इत्यमरः / / 54 / / अन्वयुर्घतिपयःपितृनाथास्तं मुदाऽथ हरितां कमितारः। वर्त्म कर्षतु पुरः परमेकस्तद्गताऽनुगतिको महाऽधः // 55 // अन्वयः-अथ हरितां कमितारः अतिपयःपितृनाथाः, तं मुदा अन्वयुः / ( तथाहि ) एकः परं पुरो वर्त्म कर्षतु, तद्गताऽनुगतिको महाऽ? न / व्याख्या-अथ = इन्द्रप्रयाणाऽनन्तरं, हरिता=दिशां, कमितार:= कामुकाः, दिक्पाला इति भावः / द्युतिपयःपितृनाथाः - अग्निवरुणयमाः, तम् =इन्द्रं, मुदा हर्षेण, भैमीदर्शनाऽभिलाषजनितेनेति शेषः / अन्वयु:अनुयाताः / उक्तमर्थमर्थान्तरन्यासेन द्रढयति-वर्मेति / तथा हि, एकःपरम् = एकजन एव, पुरः प्रथमतः, वम मार्ग, कर्षतु करोतु, तद्गताऽनुगतिकः तद्गमनाऽनुगमकारी, महाऽर्घः=महामूल्यः, दुर्लभ इति भावः, न=नो भवतु, अग्रग एव' दुर्लभस्तदनुसारिणः सुलभा इति भावः / - अनुवाद-इन्द्रकी यात्राके अनन्तर दिक्पाल, अग्नि, वरुण और यम इनलोगोंने उन( इन्द्र )का हर्षसे अनुगमन किया, क्योंकि एक व्यक्ति पहले मार्ग बना दे तो उसके पीछे चलनेवाले दुर्लभ नहीं होते हैं। टिप्पणी-हरितां="दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः" इत्यमरः। कमितारः =कम् + तृच+जस् / युतिपयःपितृनाथाः=युतिन पयश्च पितरश्च (द्वन्तः), तेषां नाथाः (10 त०), तिनाथ तेजके स्वामी अग्नि, पयोनाथ =जलके स्वामी वरुण और पितृनाय=पितरोंके स्वामीयम, यह तात्पर्य है। अन्वयुः=अनु+या+ल+झि, "लः शाकटायनस्यैव". इस सूत्रसे 'झि'के स्थानमें जुस् आदेश / तद्गताऽनुगतिक:-तस्य ( मार्गकर्तुः ) गतं ( गमनम् ) (प० त०), तद्गते अनुगतिर्यस्य सः ( व्यधिकरणबहु० ) / "शेषाद्विभाषा" इस सूत्रसे समासान्त कप् / महाऽर्घः= महान् अर्षः ( मूल्यम् ) यस्य सः (बहु० ) / इस पद्यमें अर्थान्तरन्यास अलङ्कार है // 55 // प्रेषिताः पृथगयो दमयन्त्यै चित्तचौर्यचतुरा निजदूत्यः / तहगुरु प्रति म पहाराः सत्यसोक्यापटेन निगूगः // 56 //