________________ प्रथमः सर्गः अन्वयः-सा विरहवाचिभिः, अङ्गः कुसुमस्य शरस्य शरव्यं सूचिता तात. चित्तम् अपि स्वस्वयंवरमहाय धातुः सहायम् अधत्त / व्याल्या-सा-दमयन्ती, विरहवाचिभिः=वियोगव्यञ्जकः, अगः= अवयवः, कृशतापाण्डुताऽऽदिपरिक्लिष्टैरिति शेषः / कुसुमस्य शरस्य पुष्परूपस्य बाणस्य, कामस्येति शेषः / शरव्यंलक्ष्यं, सूचिता-ज्ञापिता / अतः, तातचित्तम् अपि =जनकमानसम् अपि, स्वस्वयंवरमहाय-निजस्वयंवरोत्स. वाय, धातुः=ब्रह्मणः, सहायंसहकारि, अधत्त=अकरोत् / अनुवाद-उस ( दमयन्ती )ने वियोगकी सूचना करनेवाले अङ्गोंसे कामदेवके पुष्परूप बाणके लक्ष्य ( निशाना ) बनकर अपने पिता भीमके चित्तको भी अपने स्वयंवर उत्सवके लिए ब्रह्माजीका सहायक बनाया है। “टिप्पणी-विरहवाचिभिः विरहं ब्रुवन्तीति विरहवाचीनि, तैः, विरह + ब्रू ( वच् )+णिनि + भिस् ( उपपद०)। कुसुमस्य शरस्य यह व्यस्त रूपक है। सूचिता-सूच+क्त+टाप+सु / तातचित्तं तातस्य चित्तं, तर (ष० त०)। स्वस्वयंवरमहाय-स्वस्य स्वयंवरः (10 त०), स एव महः, तस्मै ( रूपक०)। धातुः=धा+तृ+इस् / अघत्त=धान+लङ्+त / दमयन्तीके पिता राजा भीमने भी ब्रह्माजीकी प्रेरणासे दमयन्तीकी विरहवेदना हटानेके लिए उनके स्वयंवरको ही उपाय समझा, यह अभिप्राय है // 30 // मन्मयाय यथाऽदित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् / तेन तत्परवशाः पृथिवीशाः सङ्गरं गरमिवाऽऽकलयन्ति // 31 // अन्वयः--अथ विधिः राज्ञां हूतिदूत्यविधये यत् मन्मथाय आशाम् अदित, तेन तत्परवशाः पृथिवीशाः सङ्गरं गरम् इव आकलयन्ति / . व्याख्या-अथ - अनन्तरं, विधिःब्रह्मा, राश-नृपाणां, हूतिदूत्यविधये =स्वयंवराह्वानदूतकर्मविधानाय, यत्, मन्मथाय-कामदेवाय, आज्ञाम् = आदेशम्, अदित-दत्तवान्, तेन=आशादानेन, तत्परवशाः कामाऽधीनाः, पृथिवीशाः=राजान', सङ्गरं=युद्धं, गरम् इव-विषम् इव, आकलयन्ति= मन्यन्ते, अतो राज्ञामिहाऽनागमन मिति भावः / अनुवाद-तब ब्रह्माजीने राजाओंको स्वयंवरके लिए आह्वानरूप दूतकर्मके लिए जो कामदेवको आज्ञा दी है, उस आज्ञासे कामदेवके अधीन राजालोग युद्धको विषके समान जानते हैं।