________________ 118 नैषधीयचरितं महाकाव्यम् यत्पथाऽवधिरणुः परमः, सा योगिधीरपि न पश्यति यस्मात् / बालया निजमनःपरमाणो ह्रीदरीशयहरीकृतमेनम् // 26 // अन्वयः-परमः अणुः यत्पथाऽवधिः, सा, योगिधीः अपि बालया निजमनःपरमाणी ह्रीदरीशयहरीकृतम् एनं यस्मात् न पश्यति ( तस्मादेनां निर्गमेण न परिश्रमय)। ग्याल्या-तदकयने हेतुमाह-यत्पथाऽवधिरिति / परमः उत्कृष्टः, सूक्ष्म इति भावः, अणुः कणः, परमाणुरित्यर्थः। यत्पथाऽवधिः यद्योगिधीसीमा, सातादृशी, योगिधीः अपि=योगिबुद्धिः अपि, बालया-तरुण्या, दमयन्त्या / निजमनःपरमाणी-स्वचित्तपरमाणी, ह्रीदरीशयहरीकृतं लज्जागुहागतसिंही. ‘कृतम्, एनं युवानं, यस्मात्-कारणाव, न पश्यतिनो विलोकयति, तस्मान कथ्यत इति भावः / ... अनुवाद-परमाणु, जिस योगिबुद्धिके मार्गकी सीमा ( हद ) है, तरुणी दमयन्तीसे अपने मनरूप परमाणुमें लज्जारूपं गुहामें रहनेवाले सिंहरूप बनाये गये जिस युवकको पूर्वोक्त योगिबुद्धि भी नहीं देखती है ( इसलिए मैं नहीं कहता हूं)। ... टिप्पणी-परमः अणुः- सबसे सूक्ष्म पदार्थको "परमाणु" कहते हैं / यत्पथाऽवधिः यस्याः ( योगिधियः ) पन्या यत्पथः (10 त०), यत्पथस्य अवधिः (प० त०)। योगिधीः योगिनो धीः (10 त०)। निजमनःपरमाणी=परमश्वाऽसी अणुः (क० धा०), निजं च तन्मनः ( क.पा.), निजमन एव परमाणुः, तस्मिन् ( रूपक० ) / नयायिकोंके मतोंमें मन अणपरिमाणवाला माना गया है / ह्रीदरीशयहरीकृतं ह्रीः एव दरी (रूपक०), ह्रीदयाँ शेते ह्रीदरीशयः, ह्रीदरी-उपपदपूर्वक शीङ् धातुसे "अधिकरणे शेतेः" इस सूत्रसे खश् प्रत्यय / ह्रीदरीशयवासी हरिः (क० धा० ), अह्रीदरीशयहरिः ह्रीदरीशयहरिः यथा सम्पद्यते तथा कृतः, तम्, ह्रीदरीशयहरि +च्चि+ कृ+त+अम् / योगीकी बुद्धि भी परमाणुके स्वरूपको ही ग्रहण करती है परन्तु अन्तःकरणमें प्रवेश करनेकी शक्ति उसमें नहीं है, अतः ज्ञान न होनेसे नहीं कहता हूँ, कपटसे नहीं; यह अभिप्राय है // 29 // सा शरस्य कुसुमस्य शरव्यं सुचिता विरहवाचिमिरगैः। तातचित्तमपि धातुरधत्त स्वस्वयंवरमहाय सहायम् // 30 //