________________ पञ्चमः सर्गः 117 ग्याल्या--सम्प्रति इदानीं, सा=दमयन्ती, यौवनजवेन तारुण्योत्पन्नवेगेन, प्रतिमुहूर्त प्रतिक्षणं, काऽपि = अनिर्वचनीया, अपूर्वा अपरा इव, भवन्ती=सती, आशिखं-चूडापर्यन्तं, नखादारभ्येति शेषः / सुकृतसारभृते= पुण्योत्कर्षपूर्णे, क्वाऽपिकस्मिन्नपि, यूनि=तरुणे, भावम् =अनुरागं, भजते करोतीति भावः, किल- इति प्रसिद्धिः। अनुवाद-इस समय वह तारुण्यसे उत्पन्न वेगसे प्रतिक्षण अनिर्वाच्य और अनोखी-सी होती हुई नखसे शिखतक पुण्यके उत्कर्षसे पूर्ण किसी युवा पुरुषमें अनुराग करती है, ऐसा सुना जाता है / ____ टिप्पणी-यौवनजवेन योवनस्य जवः, तेन (10 त०) / प्रतिमुहूर्तम् ( अव्ययीभावः ) / आशिखं शिखाया आ, "आङ् मर्यादाऽभिविध्योः" इससे अव्ययीभाव / सुकृतसारभृते =सुकृतस्य सारः (10 त० ), तेन भृतः, तस्मिन् (तृ० त०)॥ 27 // कम्यते न कतमः स इति त्वं मां विवक्षुरसि कि चलदोष्ठः ? अर्धवर्मनि रुणसि न पृच्छा, निर्गमेण न परिश्रमयनाम् // 28 // अन्वयः-चलदोष्ठः त्वं स कतमः इति मां विवक्षुः असि किम् ? ( तहि ) अर्धवर्त्मनि पृच्छां न रुणत्सि ? एनां निर्गमेण न परिश्रमय / ___ व्याल्या-(हे देवेन्द्र ! ) चलदोष्ठः = चञ्चलाऽधरः, त्वं, सः युवा, कतमः= कः, इति=एवं, मां=नारदं, विवक्षः वक्तुमिच्छः, असि किं= वर्तसे किम् ? ( तर्हि ) अर्धवर्मनि-अर्धमार्गे, अर्धोक्त इति भावः / पृच्छा= प्रश्नं, न रुणसि =न निवारयसि ?, रुणत्सि एव, एनां पृच्छां, निर्गमेण= निःसारणेन, उच्चारणेनेति भावः, न परिश्रमय =मा खेदय। . ___ अनुवाद-(हे देवेन्द्र ! ) हिलते हुए ओष्ठवाले आप "वह कौन है ?" ऐसा मुझे पूछनेकी इच्छा करते हैं क्या? तब तो आधे मार्गमें प्रश्नको नहीं रोकते हैं ? इस( प्रश्न )को उच्चारणसे परिश्रान्त मत कीजिए। टिप्पणी-चलदोष्ठः-चलन् ओष्ठो यस्य सः (बहु० ) / कतमःकिं+डतमच् / विवक्षुः- वच् + सन् +उः। अर्धवर्त्मनिअधं च तत् वम, तस्मिन् ( क० धा० ) / पृच्छांप्रच्छनं पृच्छा, ताम्, प्रच्छ धातुसे "षिद्धिदादिभ्योऽङ्" इस सूत्रसे अङ्+टाप् +अम् / जित होनेसे "अहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां डिति च" इससे सम्प्रसारण / रुणसि= रुधिर् + लट् + सिप् / परिश्रमय परि+श्रम+णिच् + लोट् +सिप् // 28 //