________________ 116 नैषधीयचरितं महाकाव्यम् संख्यविक्षत तनुभ्यः स्रवदस्राणि (प० त०), तैः क्षालितानि (तृ० त०), निजानि च तानि अघानि (क० धा० ); अखिलानि च तानि निजांघानि (क० धा० ), संख्यविक्षततनुस्रवदनक्षालितानि अखिलनिजाऽघानि येषां ते ( बहु० ), ते च ते लघवः, तेषाम् (क० धा०)। अनुपगमः=न उपगमः ( न०), जगावमुदं जगत्सु युवानः ( स० त० ), तेषां मुत्, ताम् (10 त०)। उदन्तं="वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्" इत्यमरः / शृणु = श्र+लोट + सिप / इस पद्यमें क्षालिताऽघपदार्थकी विशेषण गतिसे लघुत्वका हेतु होनेसे पदार्थहेतुक काव्यलिङ्ग अलंकार है // 25 // सा भुवः किमपि रत्नमनघं भूषणं जयति तत्र कुमारी। भीमभूपतनया दमयन्ती नाम, या मदनशस्त्रममोघम् // 26 // - अन्वयः-भुवः भूषणं किमपि अनर्घ रत्नं कुमारी सा दमयन्ती नाम भीमभूपतनया तत्र जयति / या अमोघं मदनशस्त्रम् / ज्याल्या-भुवः भूमेः, भूषणम् =अलङ्काररूपं, किमपि अनिर्वाच्यम्, रत्नमणिस्थानीया, असाधारणं स्त्रीरत्नमिति भावः / कुमारी कन्या, अनुढेति भावः / सा=प्रसिद्धा, दमयन्ती नाम-नाम्ना दमयन्ती, भीमभूपतनया भीमनृपदुहिता, तत्रभुवि, जयति सर्वोत्कर्षेण वर्तते, या दमयन्ती, अमोघम् =अनिष्फलं, सफलमित्यर्थः, मदनशस्त्रकामायुधम् / अनुवाद-भूमिके अलङ्काररूप अनिर्वाच्य अमूल्य रत्नस्वरूप दमयन्ती नामकी कुमारी, राजा भीमकी पुत्री उत्कर्षके साथ रहती है, जो कि कामदेव के सफल शस्त्रके समान है। टिप्पणी-अनर्घम् = अविद्यमानः अर्घः ( मूल्यम् ) यस्य तत् ( नन्बहु० ) / भीमभूपतनया भीमश्चाऽसी भूपः (क० धा० ), तस्य तनया (10 त०) / अमोघम् =न मोघम् ( न० ), "मोघं निरर्थकम्" इत्यमरः / इस पद्यमें नारदने दमयन्तीके कुल, नाम, सौन्दर्य, सौभाग्य और विवाहकी योग्यता इन सब विषयोंका वर्णन किया है // 26 // सम्प्रति प्रतिमुहूर्तमपूर्वा काऽपि यौवनजवेन भवन्ती। आशिखं सुहतसारभृते सा क्वाऽपि यूनि भजते किल भावम् // 27 // अन्वयः-सम्प्रति सा यौवनजवेन प्रतिमुहूर्त काऽपि अपूर्वा भवन्ती आशिखं सुकृतसारभृते क्वाऽपि यूनि भावं भजते किल /