________________ पञ्चमः सर्गः 111 प्रस्तुत अघ( पाप )के हरणमें उपयोग होनेसे परिणाम अलङ्कार है, उसका लक्षण है "विषयात्मतयाऽऽरोप्ये प्रकृताऽर्थोपयोगिनि / परिणामो भवेत्तुल्याऽतुल्याऽधिकरणो द्विधा / " 10-51 // 18 // इत्युदीर्य मघवा विनद्धि वर्धयन्नवहितत्वभरेण। चक्षुषां दशशतीमनिमेषो तस्थिवान्मुनिमुखे प्रणिधाय // 16 // अन्वयः-मघवा इति उदीर्य अवहितत्वमरेण विनद्धि वर्धयन् अनिमेषां चक्षुषां दशशती मुनिमुखे प्रणिधाय तस्थिवान् / व्याल्या-मघवा=इन्द्रः, इति =पूर्वोक्तम्, उदीयं =उक्त्वा, अवहितत्वभरेण =एकाग्रताऽतिशयेन, विनय द्धि=नम्रताऽतिशयं, वर्धयन् = समर्धयन्, अनिमेषां निमेषरहिता, चक्षुषां नेत्राणां, दशशतींसहस्रं, मुनिमुखेनारदवदने, प्रणिधाय =संस्थाप्य, तस्थिवान् = स्थितः / अनुवाद-इन्द्र ऐसा कहकर अत्यन्त एकाग्रतासे नम्रताको समृद्धिको बढाते हुए निनिमेष हजार नेत्रोंको नारद ऋषिके मुख में लगाकर स्थित हुए। टिप्पणी-दीय =उद् + ईर्+क्त्वा ( ल्यप् ) / अवहितत्वभरेण = अवहितस्य भावः, अवहित +त्व / अवहितत्वस्य भरः, तेन (10 त० ) / विनद्धि विनयस्य ऋद्धिः, ताम् (10 त० ) / वर्धयन् = वृध् + णिच् + लट् ( शतृ )+सुः / अनिमेषाम् अविद्यमाना निमेषा यस्यां सा, ताम् (नब्बहु०)। दशशती - दशानां शतानां समाहारो दशशती, ताम् / "तद्धितार्थोत्तरपदे समाहारे च" इस सूत्रसे समास, उसकी "संख्यापूर्वो द्विगुः" इस सूत्रसे द्विगुसंज्ञा / "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इससे स्त्रीत्वकी इष्टिसे "द्विगोः" इससे ङीप् / मुनिमुखे-मुनेः मुखं, तस्मिन् (प० त०)। प्रणिधाय-प्र+नि+ धा+क्त्वा ( ल्यप् ) / तस्थिवान् =स्था+लिट् (.क्वसुः )+सु // 19 // वीक्ष्य तस्य विनये परिपाकं पाकशासनपर्व स्पृशतोऽपि / नारदः प्रमदगद्गदयोक्त्या विस्मितः स्मितपुरःसरमाण्यत् // 20 // अन्वयः-नारदः पाकशासनपदं स्पृशतः अपि तस्य विनये परिपाकं वीक्ष्य विस्मितः ( सन् ) प्रमदगद्गदया उक्त्या स्मितपुरःसरम् आख्यत् / व्याख्या-नारदः=देवर्षिविशेषः, पाकशासनपदम् = इन्द्रत्वं, स्पृशतः अपि अधितिष्ठतः अपि, तस्य इन्द्रस्य, विनये-नम्रतायां, परिपाकं प्रकर्ष, वोक्य-दृष्ट्वा, विस्मितःआश्चर्ययुक्तः सन्, प्रमदगद्गदया हर्षविस्वस्या,