________________ नैषधीयचरितं महाकाव्यम् व्याख्या-शतमन्युः = इन्द्रः, आलपनकोतुकितायाम्=आभाषणोत्कण्ठायां, दूरं विप्रकृष्ट, कथाऽनुकथनप्रसृतायाम् =वचनाऽनुवचनविस्तृतायां सत्याम्, चिरं बहुकालात्प्रभृति, भूभृतां = राज्ञाम्, अनागमहेतुम् =अनागमनकारणं, ज्ञातुं वेत्तुम्, इच्छु: == अभिलाषुकः सन्, तं=नारदम्, अवदत् = उक्तवान्, अपृच्छदिति भावः / ____ अनुवाद–इन्द्रने आभाषण( बातचीत )की उत्कण्ठाकी उक्ति और प्रत्युक्तिसे दूरतक बढ़नेपर बहुत कालसे राजाओंके न आनेके कारणको जाननेकी इच्छा करते हुए उन( नारद )से कहा। . टिप्पणी-शतमन्युः= शतं मन्यवः ( यज्ञाः ) यस्य सः ( बहु० ) / "मन्युर्दैन्ये क्रती युधि" इत्यमरः। आलपनकौतुकितायाम्=कौतुकम् अस्याऽस्तीति कौतुकी, कौतुक + इनिः, कौतुकिनो भावः, कौतुकिन् + तल +टाप्, आलपनस्य कौतुकिता, तस्याम् (10 त०) / कथाऽनुकथनप्रसृतायां कथा च अनुकथनं च ( द्वन्द्वः ), कथाऽनुकथनाभ्यां प्रसृता, तस्याम् ( तृ० त० ) / भूभृतां= भुवं बिभ्रति भूभृतः, तेषाम्, भू+भृ+ क्विप् +आम् ( उपपद०)। अनागमहेतुम्न आगमः ( नन्०), तस्य हेतुः, तम् ( 10 त० ) / अवदत्वद+लङ्+तिप् // 13 // प्रागिव प्रसुवते नृपवंशाः किं नु सम्प्रति न वीरकरीरान् ? ये परप्रहरणः परिणाम विक्षताः क्षितितले निपतन्ति // 14 // अन्वयः-नृपवंशाः प्राक् इव सम्प्रति वीरकरीरान् कि न प्रसुवते नु ? ये परिणामे परप्रहरणः विक्षताः ( सन्तः ) क्षितितले निपतन्ति / ___ व्याल्या-नृपवंशाः राजकुलानि, नृपरूपा वंशाश्व, प्राक् इव पूर्वम् इव, सम्प्रति= इदानीं, वीरकरीरान् =वीराङ्कुरान्, किं न प्रसुवते नु?= कि नो जनयन्ति नु ? ये=वीरकरीराः, परिणामे = वृद्धाऽवस्थायां, परप्रहरणः =शत्रुशस्त्रैः, अन्यदात्रादिभिश्व, विक्षता: हताः, आहताश्च सन्तः, क्षितितले= भूतले, निपतन्ति = निपतिता भवन्ति, न तु रोगादिनेति भावः / अनुवाद-राजाओंके कुल वा श्रेष्ठ वंश, पहलेके समान आजकल वीरोंके अकुरों( पुत्रों )को वा श्रेष्ठ अङ्कुरों( कोंपलों )को क्या उत्पन्न नहीं करते हैं ? जो वीरोंके अङ्कुर ( सन्तान ) वा श्रेष्ठ वंशोंके अङ्कुर ( कोपल ) परिपक्व अवस्था( वृद्धावस्था वा जीर्ण अवस्था )में शत्रुओंके हथियारोंसे वा अन्योंकी कुल्हाड़ी आदिसे ताडित होकर भूतलमें गिर पड़ते हैं /