________________ पञ्चमः सर्गः 105 (तृ० त०)। वदान्यान् = "स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे" इत्यमरः / विवेद-विद्+लिट् + तिप् ( णल् ) / नारदने इन्द्रके हाथको "यह कल्पवृक्षोंको भी दानविद्याका उपदेश करनेवाला है" ऐसा जान लिया। "इन्द्रकी उदारता कल्पवृक्षको भी मात करनेवाली है" यह भाव है // 11 // मुद्रिताऽन्यजनसङ्कथनः सन्नारदं बलरिपुः समवादीत् / आकर: स्वपरभूरिकयानां प्रायशो हि सुहृदोः सहवासः // 12 // अन्वयः- बलरिपुः मुद्रिताऽन्यजनसङ्कथनः सन् नारदं समवादीत्, हि प्रायशः सुहृदोः सहवासः स्वपरभूरिकथानाम् आकरः / व्याख्या-बलरिपुःबलाऽरातिः, इन्द्र इत्यर्थः / मुद्रिताऽन्यजनसङ्कथनः सन्-निवारितेतरलोकाऽऽलापः सन्, नारदं देवषि, समवादी-समवोचत / उक्तमर्थमर्थान्तरन्यासेन द्रढयति-आकर इति / हि=यस्मात्कारणात, प्रायशः=बाहुल्येन, सुहृदोः-मित्रयोः, सहवासः=सङ्गमः, स्वपरभूरिकथा. नाम् = आत्मीयाऽन्यबहुवार्तानाम्, आकरः खनिः / अनुवाद–इन्द्रने अन्य व्यक्तिसे बातचीत रोककर नारदजीसे वार्तालाप किया, क्योंकि अकसर दो मित्रोंका संगम अपने और दूसरोंके बहुतसे वृत्तान्तोंका खान होता है। टिप्पणी -बलरिपुः=बलस्य रिपुः (प० त०), "बलाऽरातिः शचीपतिः" इत्यमरः / मुद्रिताऽन्यजनसंकथनः =अन्यश्चाऽसौ जनः (क० धा० ), तेन संकथनम् ( तृ० त० ), मुद्रितम् अन्यजनसंकथनं येन सः ( बहु०) / समवादीत् सम् +वद+लड+तिप / प्रायशःप्राय+शस् / सुहृदयोः=शोभनं हृदयं ययोस्तो, तयोः ( बहु० ) / सहवासः सह+वस् + घन् / स्वपरभूरिकथानां=भरयश्च ताः कथाः (क० धा० ), स्वे च परे च (द्वन्द्वः ), स्वपरेषां भूरिकथाः, तासाम् ( ष० त०)। आकर:- "खनिः स्त्रियामाकरः स्यात्" इत्यमरः / इस पद्यमें अर्थान्तरन्यास अलङ्कार है / / 12 // तं कथाऽनुकथनप्रसृतायां दूरमालपनकौतुकितायाम् / भूभृतां चिरमनागमहेतं ज्ञातुमिच्छरवदच्छतमन्युः॥ 13 // अन्वयः-शतमन्युः आलपनकौतुकितायां दूरं कथाऽनुकथनप्रसृतायां ( सत्याम् ) चिरं भूभृताम् अनागमहेतुं ज्ञातुम् इच्छुः ( सन् ) तम् अवदत् /