________________ 68 नैषधीयचरितं महाकाव्यम् आगमयते = आङ् + गम् + णिच्+लट् +त। “आगमेः क्षमायाम्" इस वार्तिकसे आत्मनेपद / काशिकाकारने क्षमाका उपेक्षा कालहरण, ऐसा अर्थ किया है। ऋषिः="ऋषयः सत्यवचसः" इत्यमरः / वेदमन्त्रका साक्षात्कार करनेवालेको "ऋषि" कहते हैं। नारद देवताओंके ऋषि होनेसे "देवर्षि" कहे जाते हैं / "एव ऋषिः" यहाँपर "ऋत्यकः" इस सूत्रसे प्रकृतिभाव होनेसे सन्धिका अभाव / इन्द्रदिदृक्षुः= इन्द्रस्य दिदृक्षुः (10 त०)। यहाँपर कारकषष्ठी नहीं है, शेषषष्ठी है / त्रिदशधाम त्रिदशानां धाम, तत् ( 10 त० ) / जगाम गम् +लिट् +तिप् / इस सर्गमें स्वागता छन्द है, उसका लक्षण है "स्वागतेति रनभाद्गुरुयुग्मम् / " इति // 1 // नात्र चित्रमनु तं प्रययौ यत् पर्वतः खल तस्य सपक्षः / नारदस्तु जगतो गुरुरुचविस्मयाय गगनं विललधे // 2 // अन्वयः-पर्वतः तम् अनु यत् प्रययो, अत्र चित्रं न / स तस्य सपक्षः खल / ( किन्तु ) जगतः उच्चैः गुरुः नारदस्तु यत् गगनं विललधे ( तत् ) विस्मयाय / व्याल्या-अथ षड्भिः पद्यैर्नारदस्य गमनप्रकारं वर्णयति-नाऽत्रेति / पर्वतः =नारदसखो मुनिः, शैलश्च / तं=नारदम्, अनुपश्चात्, प्रययोजगाम, अत्र=अस्मिन् विषये, चित्रं न=आश्चर्य न / कुतः इत्याह-सः=पर्वतः, तस्य =नारदस्य, सपक्षः- सखा, पक्षवांश्च / खलु =निश्चयेन, पर्वतस्य नारदमित्रत्वाच्छलत्वाच्च नारदाऽनुयाने आश्चर्य नेति भावः / किं तुजगतः लोकस्य, उच्चः उन्नतः, गुरुः= आचार्यः, तस्मादलघुश्च तादृशो नारदस्तु, यत् गगनम् = आकाशं, विललऽलङ्घयामास, तत् =लङ्घनं, विस्मयाय=आश्चर्याय, भवतीत्यर्थः। अनुवाद-पर्वत ऋषि, नारदके पिछे जो गये, इसमें आश्चर्य नहीं है। क्योंकि वे उन( नारद )के सपक्ष मित्र अथवा पंखवाले हैं। किन्तु लोकके महान् आचार्य नारदजीने जो आकाशको लधन किया, वह आश्चर्यके लिए है / . टिप्पणी-पर्वतः="पर्वतः शैलदेवोः " इति विश्वः / सपक्षः = पक्षण सहितः ( तुल्ययोगबहु० ) / विस्मयाय="तादर्थ्य चतुर्थी वाच्या" इससे चतुर्थी, अथवा "क्रियाऽर्थोपपदस्य च कर्मणि स्थानिनः" इससे चतुर्थी / पतनके योग्य