________________ पञ्चमः सर्गः नारदरूप गुरुद्रव्यका उत्पतन ( उड़ना) विरुद्ध है, ऐसे श्लेषसे उत्थापित विरोध अलङ्कार है // 2 // गच्छता पथि विनव यिमान व्योम तेन मुनिना विजगाहे / . साधने हि नियमोऽन्यजनानां, योगिनां तु तपसाऽखिलसिद्धिः // 3 // अन्वयः-पथि विमानं विना एव गच्छता तेन मुनिना व्योम विजगाहे / हि साधने नियमः अन्यजनानां, योगिनां तु तपसा अखिलसिद्धिः / व्याख्या-पथि = मार्गे, विमानं विना एव=व्योमयानं विना एव, गच्छता व्रजता, तेन-पूर्वोक्तेन, मुनिना=नारदेन, व्योम=आकाशं, विजगाहेप्रविष्टम्, उक्तमर्थमर्थान्तरन्यासेन द्रढयति-साधन इति / हि-यस्मात्कारणात्, साधने= उपाये, नियमः=अवश्यम्भावः / अन्यजनानाम् =अपरजनानाम्, अस्मदादीनामिति भावः / योगिनां तु तपोयोगयुक्तानां तु, तपसा तपोधर्मेण, अखिलसिद्धिः=सर्वकार्यसिद्धिः / तस्मानारदसदृशानां योगिनां कि विमानेनेति भावः / अनुवाद-मार्गमें विमानके बिना ही जाते हुए नारद मुनिने आकाशमें प्रवेश किया, क्योंकि उपायमें और लोगोंकी आवश्यकता है, योगियोंको तो तपस्यासे ही सब कार्यों में सिद्धि होती है / टिप्पणी-विजगाहे-वि+गाह+लिट् (कर्ममें )+त / अन्यजनानाम् = अन्ये च ते जनाः, तेषाम् (क० धा० ) / योगिनां= युज् + घिनुण्+आम् / अखिलसिद्धिः अखिलानां सिद्धिः (10 त०)। इस पद्यमें सामान्यसे विशेष. का समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है // 3 // खण्डितेन्द्रभवनाअभिमानालन्ते स्म मुनिरेष विमानान् / अथितोऽप्यतिथितामनुमेने नैव तत्पतिभिरधिविनम्रः // 4 // अन्वयः-एष मूनिः खण्डितेन्द्रभवनाद्यभिमानान विमानान लवते स्म / अद्धिविन H तत्पतिभिः अथितः अपि अतिथितां नैव अनुमेने / व्याख्या-एषः=नारदः, खण्डितेन्द्रभवनाद्यभिमानान् = निरस्तपुरन्दरसदनाद्यहङ्कारान्, विमानान् =देवगृहान्, लङ्घते स्म =अतिचक्राम। कि बहुना-अधिविनम्रः=चरणनिपतितः, तत्पतिभिः=विमानाऽध्युषितैर्देवैः, अथितः अपि-प्रार्थितः अपि, अतिथिताम् =आतिथ्यं, नैव अनुमेने= नक स्वीचकार, एतन्मात्रविलम्बं च न सोढवानिति भावः /