________________ 12 नैषधीयचरितं महाकाव्यम् द्रुतविगमितविप्रयोगचिह्नामपि तनयां नृपतिः पदप्रणमाम् / / अकलयवसमाशुगाधिमग्नां, मटिति पराशयवेविनो हि दिशाः॥११८॥ अन्वयः-नृपतिः द्रुतविगमितविप्रयोगचिह्नाम् अपि पदप्रणम्रा तनयाम् असमाऽऽशुगाऽऽधिमग्नाम् अकलयत् हि विज्ञाः झटिति पराशयवेदिनः / ____ व्याख्या-नृपतिः = राजा, भीमः / द्रुतविगमितविप्रयोगचिह्नाम् अपि = शीघ्राऽपसारितशिशिरोपचारचिह्नाम् अपि, पदप्रणम्रा = चरणनिपतितां, तनयां =पुत्रीं, दमयन्तीम्, असमाशुगाधिमग्नांमदनव्यथामग्नाम्, अकलयत जातवान् / उक्तमर्थमर्थान्तरन्यासेन द्रढयति-हि-यस्मात् कारणात्, विज्ञाः= प्रवीणाः, झटिति - शीघ्र, पराशयवेदिनः=अन्याऽभिप्रायज्ञातारः, भवन्तीति शेषः, प्रकाशकचिह्न विनाऽऽकारमात्रेण पराऽभिप्रायं निश्चिन्वन्तीति भावः। अनुवाद-राजा भीमने झटपट वियोगके चिह्न उशीर आदिके हटाये जानेपर भी पैरों में झुकी हुई पुत्री दमयन्तीको “यह कामपीडामें मग्न है" ऐसा जान लिया, क्योंकि प्रवीण जन झटपट दूसरेके आशयको जाननेवाले होते हैं। ____ टिप्पणी-नृपतिः = नृणां पतिः (10 त०)। द्रुतविगमितविप्रयोगचिह्नां= द्रुतं विगमितं ( सुप्सुपा० ), विप्रयोगस्य चिह्नम् (ष० त०), द्रुतविगमितं विप्रयोगचिह्न यस्याः सा, ताम् (बहु०)। पदप्रणम्रां=पदयोः प्रणम्रा, ताम् ( स० त० ) / "उपसर्गादसमासेऽपि णोपदेशस्य" इससे णत्व / असमाऽऽशुगाऽऽधिमग्नाम् =न समाः ( नन्०), असमा आशुगा यस्य सः ( बहु० ), असमाशुगेन आधि: (तृ० त०), तस्मिन् मग्ना, ताम् (स० त०)। अकलयत् =कल+णिच् + ल+तिप् / पराऽऽशयवेदिनः=आशयं विदन्तीति आशयवेदिनः, आशय+विद्+णिनिः ( उप० ) / परेषाम् आशयवेदिनः (10 त०)। इस पद्यमें सामान्यसे विशेष का समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है। पुष्पिताग्रा छन्द है // 118 // ज्यतरदय पिताऽऽशिर्ष सुताय नतशिरसे मुहरुन्नमम्य मौलिम् / "दयितमभिमतं स्वयंवरे त्वं गुणमयमाप्नुहि वासरः किविः " // 11 // अन्वयः-अथ पिता नतशिरसे सुताय मुहुः मौलिम् उन्नमय्य "(हे वत्से !) कियद्भिः वासरैः स्वयंवरे त्वं गुणामयम् अभिमतं दयितम् आप्नुहि" ( इति ) आशिषं व्यतरत्। . व्याख्या-अथ प्रणामानन्तरं, पिता-जनकः, भीमः / नतशिरसेआनतमस्तकाय, सुताय दुहित्रे, दमयन्त्य, मुहुः वारं वारं, मौलि