________________ 'चतुर्थः सर्गः मस्तकम्, उन्नमय्य = उन्नतं कृत्वा, हे वत्से ! कियद्भिः कतिपयः, वासरः =दिनैः, स्वयंवरे स्वयंवरस्थाने, त्वं, गुणमयं शौर्यसौन्दर्यादिगुणसम्पन्नम्, अभिमतम् - अभीष्टं, दयितं-प्रियं वरम्, आप्नुहि लभस्व, इति, आशिषम् =आशीर्वचनं, व्यतरत् = वितीर्णवान् / / / अनुवाद-तब पिता भीमभूपालने शिर झुकानेवाली पुत्रीको बारंबार मस्तकको ऊंचा कर "हे वत्से ! कुछ ही दिनोंमें तुम स्वयंवरमें गुणसम्पन्न अभीष्ट वरको प्राप्त करो" ऐसे आशीर्वादका वितरण किया। टिप्पणी-नतशिरसे =नतं शिरो यस्याः सा नतशिराः, तस्यै ( बहु० ) / उन्नमय्य=उत्+नम + णिच् + क्त्वा ( ल्यप् ) / वासरः- "अपवर्गे तृतीया" इससे कालके अत्यन्तसंयोगमें तृतीया / गुणमयं=गुण+ मयट् (प्राचुर्य अर्थमें) +अम् / आप्नुहि=आप् +लोट् +सिप् / पुष्पिताग्रा छन्द है / / 119 // तदनु स तनुजासखीरवादीतुहिनऋतौ गत एव हीदृशानाम् / कुसुममपि शरायते शरीरे तचितमाचरतोपचारमस्याम् // 120 // अन्वयः-तदनु स तनुजासखी: अवादीत्-"हि तुहिनऋतो गत, एव ईदृशीनां शरीरे कुसुम्म् अपि शरायते, तत् अस्याम् उचितम् उपचारम् आचरत / | व्याख्या-तदनु=आशीर्वादानन्तरं, स:- राजा भीमः, तनुजासखी:सुनावयस्याः, अवादीत् = उक्तवान् / हि= यस्मात्कारणात् / तुहिनऋती= शिशिरकाले, गत एव=निर्गत एव / ईदृशीनाम् = एतादृशीनां, कोमलाङ्गीनां, शरीरे=देहे, कुसुमम् अपि-पुष्पम् अपि, शरायते शरवत् आचरति / तत्-तस्मात्कारणात्. अस्याम् =एतस्यां, कोमलाङ्गयां दमयन्त्याम्, उचितंयोग्यम्, उपचारं प्रतीकारम्, आचरत=कुरुत / __ अनुवाद-आशीर्वाद देकर राजा भीमने पुत्री( दमयन्ती )की सखियोंको कहा-"जो कि शिशिर ऋतुके जाने पर ही ऐसी (दमयन्ती-सी) कोमल अङ्ग वालियोंके शरीरमें फूल भी बाणके सदृश हो जाता है, इसलिए इसमें योग्य उपचार करो। * . टिप्पणी-तनुजासखी: तनुजायाः सख्यः, ताः (10 त०)। अवादीद =वद+ लुङ् + तिप् / तुहिनऋतौ-तुहिनश्चासौ ऋतुः, तस्मिन् (क० धा० ), "ऋत्यकः" इस सूत्रसे प्रकृतिभाव होनेसे अर् गुण नहीं हुआ। शरायते = शरवत् आचरति, शर शब्दसे "कर्तुः क्यङ् सलोपश्च" इस सूत्रसे क्यङ्ल ट+ त / आचरत आङ् +चर+लोट् + थ / इस पद्यमें उपमा अलंकार है और पुष्पिताग्रा छन्द है // 120 //