SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः गृहाण= अव + ग्रह + लोट् + सिप् / शुश्रुविरे=श्रु+लिट् ( कर्ममें )+ झः॥ 114 // कलकलः स तदाऽऽलिजनाऽऽननादुदलसद्विपुलस्त्वरितेरितः। यमधिगम्य सुताऽऽलयमेतवान् ब्रुततरः स विदर्भपुरन्दरः // 115 // अन्वयः-तदा आलिजनाऽऽननात् त्वरितेरितः विपुल: स कलकलः उदलसत् / यम् अधिगम्य स विदर्भपुरन्दरः द्रुततरः सुताऽऽलयम् एतवान् / व्याख्या-तदातस्मिन्समये, आलिजनाऽऽननात् =सखीजनमुखात, स्वरितेरितः सम्भ्रमोक्तिभिः, विपुल:=महान्, सः=पूर्वोक्तः, कलकल:= कोलाहलः, उदलसत् =उत्थितः / यं-कल कलम, अधिगम्य = प्राप्य, आकर्ण्यति भावः, स:=प्रसिद्धः, विदर्भपुरन्दर:=भीमभूपतिः, द्रुततरः-अतित्वरितः सन्, सुताऽऽलयं पुत्रीभवनं, कन्याऽन्तःपुरमिति भावः / एतवान् =प्राप्तवान् / ___अनुवाद-उस समय दमयन्तीकी सखियोंके मुखसे संभ्रमकी उक्तियोंसे वैसा महान् कोलाहल हुआ, जिसको सुनकर विदर्भपति भीम अतिशीघ्रतापूर्वक अपनी कन्याके अन्तःपुरमें प्राप्त हुए / टिप्पणी-आलिजनाऽऽनना=आलयश्च ते जनाः (क० धा० ), तेषाम् आननं, तस्मात् (10 त० ) / त्वरितेरितः - त्वरितानि च तानि ईरितानि, तैः (क० धा० ) / उदलसत् =उद् + लस्+ल+तिप / अधिगम्य अधि+. गम् + क्त्वा ( ल्यप् ) / विदर्भपुरन्दर:= विदर्भाणां पुरन्दरः (10 त०) / द्रुततर: द्रुत + तरप्+सुः / सुताऽऽलयं सुताया आलयः, तम् (10 त०)। एतवान् =आङ्+इण् + क्तवतुः / "ईयिवान्" ऐसे पाठमें इण् + क्वसुः+सुः // 115 / कन्याऽन्तःपुरबोधनाय यवधीकारान्न बोषा नृपं - द्वौ मन्त्रिप्रवरश्न तुल्यमगदङ्कारश्च तावूचतुः / देवाऽऽकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं : स्यावस्या नलदं विना न दलने तापस्य कोऽपि क्षमः // 116 // अन्वयः-कन्याऽन्तःपुरबोधनाय यदधीकारात् दोषा न, मन्त्रिप्रवरः अगद. कारश्च द्वौ नृपं तुल्यम् ऊचतुः / "देव ! आकर्णय, सुश्रुतेन चरकस्य उक्तेन अखिलं जाने / अस्याः तापस्य दलने नलदं विना कोऽपि क्षमो न स्यात्"। . - व्याख्या-कन्याऽन्त.पुरबोधनाय = कुमारीशुद्धान्तयोगक्षेमाऽनुसन्धानाय, यदधीकारात् =मन्त्रिवैद्यनियोगात, दोषा:=दूषणानि, परपुरुषप्रवेशादीनि (मन्त्रिपक्षे ), वातादीनि च ( वैद्यपक्षे ) / न=सन्तीति शेषः। मन्त्रि
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy