________________ चतुर्थः सर्गः अपि वक्षःस्थलम् अपि, अनलङ्कृतम् =अभूषितं जातम् / इति सख्या उक्तिः / दमयन्ती "हृदयम् अनलकृतम्" इत्यत्र हृदयं वक्षः, "अनलं नलरहितं, कृतं विहितम्" इति अर्थान्तरं मत्त्वा उत्तरयति-सखीति / हे सखि हे वयस्ये ! सः-प्रसिद्धः, प्रियतमः=दयिततमः, नल इति भावः / मम%= प्रणयिन्या दमयन्त्याः, हृदि अपि हृदये अपि, व्यवधापितः= व्यवधानं प्रापितः, यदि-चेत्, तदातहि, हता-नष्टप्राया, अस्मि-भवामि / / अनुवाद-सखी-"दमयन्ति ! कामज्वरसे हारमणिके फूटनेपर आज आपका हृदय भी अनलङ्कृत ( अलङ्काररहित ) हो गया।" दमयन्ती "हृदयम् अनलकृतम्" इन पदोंका हृदय नलरहित किया गया, ऐसा अर्थ जानकर * उत्तर देती हैं- "हे सखि ! वे प्रियतम ( नल ) मेरे हृदयमें भी व्यवहित (दूर ) किये गये हैं तो मैं नष्ट हो गई।" टिप्पणी-मदनोष्मणा= मदनस्य ऊष्मा, तेन (10 त०') / हारमणी - हारश्चाऽसो मगिः, तस्मिन् (क० धा० ) / स्फुटति= स्फुट + लट् ( शतृ )+ ङि / अनलङ्कृतं =न अलङ्कृतम् ( नन्०)। दमयन्ती-"हृदयम् अनलं कृतम्" इस तरह पदच्छेद समझती हैं / अनलम् - अविद्यमानो नलो यस्मिस्तत् ( नबहु०)। प्रियतमः=प्रिय + तमप् / व्यवधापितः=वि+अव+ धा+णिच् + क्तः ( कर्ममें ) / "अतिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुो" इससे पुक् आगम / इस पद्यमें वक्रोक्ति अलङ्कार है // 109 // . इदमुदीर्य तदेव. मुमूच्र्छ सा मनसि मूच्छितमन्मथपावका। क्व सहतामवलम्बलवच्छिवामनुपपत्तिमतीमपि दुःखिता // 110 // अन्वयः-सा इदम् उदीयं तदा एव मनसि मूच्छितमन्मथपावका ( सती) मुमूर्छ / तथाहि-दुःखिता ( सा ) अनुपपत्तिमतीम् अपि अवलम्बलवच्छिदां क्व सहताम् ? ___ व्याख्या-सा=दमयन्ती, इदम् एतम्, पूर्वोक्तं "सखि ! हताऽस्मीति" वाक्यमिति. भावः / उदीय उच्चार्य, तदा एव तस्मिन् समय एव, मनसि= चित्ते, मूच्छितमन्मथपावका=प्रवृद्धकामाऽग्निः सती, मुमूर्छ =मुमोह / उक्तमर्थमर्थान्तरन्यासेन द्रढयति-क्व सहतामिति / तथाहि-दुःखिता= सजातदुःखा, सा, अनुपपत्तिमतीम् अपि अनुपपन्नाम् अपि, “अनलङ्कृतम्" इति श्लेषशब्दश्रवणजन्यभ्रान्तिविषयत्वादिति शेषः / अवलम्बलवच्छिवाम् हृदि नलरूपाऊलम्बनलेशच्छेदनं, क्व=कुत्र, सहता=मृष्यताम् /