SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः स्वच्छस्त्रं, कृतवान् =विहितवान् / एतद्वैपरीत्येन विधिः, तव=भवतः, दृढं = कठोरं, धनुः कार्मुकम्, आयसम् =अयोमयम्, आशुगं चबाणं च, सृजेत् यदि जनयेच्चेत्, तर्हि त्रिजगत् = लोकत्रयं, प्रलयं =विनाशं, व्रजेत् = गच्छेत् / तव घातुकतां दृष्ट्वा ब्रह्मदेवेन सम्यक् कृतमिति भावः / - अनुवाद-हे काम ! तुम अतिशय हत्यारे हो, इस कारण ब्रह्माजीने फूलोंको तुम्हारा हथियार बनाया। तुम्हारा मजबूत धनु और लोहेका बाण बनाते तो तीनों लोकोंका विनाश हो जाता। टिप्पणी-नृशंसतमः=अतिशयेन नृशंसः, नृशंस+तमप् / भवदायुधं = भवत आयुधं, तत् (प० त०)। कृतवान् =कृ+ क्तवतु+सु / आयसम् = अयसः अयं, तम्, अयस्+अण् + अम् / सृजेत् =सृज+लिङ्+तिप् / त्रिजगत्त्र याणां जगतां समाहारः ( द्विगु० ) / व्रजेत् =वज+विधिलिङ्+ तिप् // 86 // स्मररिपोरिव रोपशिखी पुरां वहतु ते जगतामपि मा त्रयम् / इति विषुस्स्वदिषून कुसुमानि कि मधुमिरन्तरसिञ्चदनिवृतः // 87 // अन्वयः-( हे काम ! ) स्मररिपोः रोपशिखी पुरां त्रयम् इव ते रोपशिखी जगतां त्रयं मा दहतु इति ( मत्वा ) विधि: अनिर्वृतः त्वदिषन् कुसुमानि मधुभिः अन्तः असिञ्चत् किम् ? / ___ व्याख्या-(हे काम ! ) स्मररिपोः त्वच्छत्रोः, हरस्येत्यर्थः / रोपशिखी बाणाऽग्निः, पुरानगराणां, त्रयम् इव=त्रितयम् इव, त्रिपुरमिवेति भावः / ते तव कामस्य, रोपशिखी बाणाऽग्निः, जगतां लोकानां, त्रयंत्रितयं, लोकत्रयमिति भावः / मा दहतुनो भस्मीकरोतु, इति =एवं, मत्वेति शेषः / विधिःब्रह्मदेवः, अनिर्वृतः-अपरितुष्टः सन्, स्वां पुष्पबाणं कृत्वाऽपीति शेषः / त्वदिषून् =त्वबाणान्, कुसुमानि = पुष्पाणि, मधुभिः पुष्परसैः, अन्तःअभ्यन्तरे, असिञ्चत् किम् =औक्षत् किमु ? अग्निशान्त्यर्थमिति शेषः / विधिरेवं नाऽकरिष्यच्चेत् धातुकतमस्य ते को वारयिताऽभविष्यदिति भावः। अनुवार-(हे काम ! ) जैसे तुम्हारे शत्रु रुद्रके. बाणाऽग्निने त्रिपुरको जलाया था, उसी तरह तुम्हारा बाणाऽग्नि भी तीनों लोकोंको मत जलावे, ऐसा विचार कर ब्रह्माजीने तुम्हें पुष्परूप बाणोंको देनेसे ही सन्तुष्ट न होकर तुम्हारे बाण फूलोंके भीतर पुष्परससे अभिषिक्त कर दिया।
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy