________________ 24 नैषधीयचरितं महाकाव्यम् अन्वय:-कमलप्रवालयोः अधोविधानात् अखिलक्षमाभुजां शिरःसु धानात् इदम् ऊवं पुरा भवति इति वेधसा अस्य पदम् ऊर्ध्वरेखया अङ्कितं किम् ? // 18 // __व्याख्या--कमलप्रवालयोः = कमलपल्लवयोः, अधोविधानात् = तिरस्करणात्, अरुणतास्निग्धतामृदुत्वाऽतिशयरिति शेषः / तथा अखिलक्षमाभुजां = सकलभूपालानां, शिरःसु = मस्तकेषु धानात् = स्थापनात्, “दानात्" इति पाठान्तरेऽपि स एवाऽर्थः / इदं = पदम्, ऊर्ध्वम् = उपरिवति, पुरा भवति = भविष्यति इति = हेतोः, वेधसा = ब्रह्मणा, अस्य = नलस्य, पदं = चरणम्, ऊर्ध्वरेखया = उच्चरेखया, अङ्कितं कि = चिह्नितं किम् ? // 18 // अनुवादः--कमल और पल्लवको तिरस्कार करनेसे और संपूर्ण राजाओंके मस्तकोंमें स्थापन करनेसे, यह चरण उच्च स्थानमें रहेगा इस हेतुसे ब्रह्माजीने इनके चरणको ऊर्ध्वरेखासे अङ्कित किया है क्या ? ऐसा मालूम पड़ता है // 18 // टिप्पणी-कमलप्रवालयोः = कमलं च प्रवालश्च, तयोः (द्वन्द्वः) / अखिलक्षमाभुजां-क्षमां भुञ्जन्तीति क्षमाभुजः, क्षमा + भुज् + क्विप् (उपपद०)। "गोरिला कुम्भिनी क्षमा" इत्यमरः / अखिलाश्च ते क्षमाभुजः, तेषाम् ( क० घा० ) / धानात् = धा+ल्युट् + ङसि / पुरा भवति = भू धातुसे "पुरा" पदके योगमें "यावत्पुरानिपातयोर्लट" इस सूत्रसे भविष्यत् कालमें लट् ऊर्ध्वरेखया = ऊवा चाऽसौ रेखा, तया (क० धा०)। सौन्दर्य और शुभ लक्षणोंसे सम्पन्न नलका चरण है यह तात्पर्य है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 18 // जगन्जय तेन च कोशमक्षयं प्रणीतवान्शशवशेषवानयम् / सखा रतीशस्य ऋतुर्यषा वनं वपुस्तथाऽलिङ्गदथाऽस्य यौवनम् // 19 / अन्धयः-शंशवशेषवान् अयं जगज्जयं, तेन च कोशम् अक्षयं प्रणीतवान् / अयं रतीशस्य सखा ऋतु: यथा वनं, तथा यौवनम् अस्य वपु: आलिङ्गत् / / 19 / / अथ नलस्य तारुण्योपगम क्रमेण वर्णयति-जगज्जयमिति / व्याख्या-शैशवशेषवान् = बाल्याऽवशेषयुक्तः, षोडषवर्षदेशीय इति भावः / अयं = नलः, जगज्जयं लोकविजयं, प्रणीतवान् = कृतवान्,तेन च = जगज्जयेन 1, कोशं = भाण्डारगृहम्, अक्षयं-क्षयरहितं, परिपूर्णमिति भावः, प्रणीतवान् = कृतवान् / अथ अनन्तरं, शंशवाऽपगमानन्तरमिति भावः / रतीशस्य = रतिपतेः कामदेवस्येति भावः, सखा = सहचरः, मित्रमित्यर्थः / ऋतुः = वसन्तः, यथा - येन प्रकारेण, वनं = कान नम्, आलिङ्गति, तथा = तेन प्रकारेण, यौवनं = तारुण्यम्, . अस्य = नलस्य, वपुः = शरीरम्, आलिङ्गत् = आलिङ्गितवत्, बाधयदित्यर्थः / नलस्य योवनप्रादुर्भावो जात इति भावः // 19 //