________________ प्रथमः सर्गः अजनमभ्यासमुपेयुषा समं मुदेव देवः कविना बुषेन च। वो पटीयान्समयं नयनयं विनेश्वरश्रीरुदयं दिने दिने // 17 // अन्वयः-पटीयान् दिनेश्वरश्री: अयं देवः अजस्रम् अभ्यासम् उपेयुण कविना बुधेन च समं मुदा एव समयं नयन् दिने दिने उदयं दधौ // 17 // नलस्य विद्वज्जनसंगति प्रतिपादयति-अजस्रमिति / . व्याख्या-पटीयान् = कार्यकुशल:, दिनेश्वरश्रीः = सूर्यसमतेजाः, अयं वर्ण्यमानः, देवः = राजा, नल इत्यर्थः / अजस्र = निरन्तरम्, अभ्यासं - समीपम्, उपेयुषा = प्राप्तवता, कविना = काव्यकर्ता शुक्रेण च, बुधेन = पण्डितेन, चन्द्रपुत्रग्रहेण च, समं = सह, मुदा एव = आनन्देन एव, समयं = कालं, नयन् = यापयन्, दिने दिने - प्रतिदिनम्, उदयम् उन्नतिम् उदयपर्वतसम्बन्ध च, दधौ = धृतवान् // 17 // . अनुवादः-कार्यकुशल और सूर्य के समान तेजवाले ये महाराज नल जैसे सूर्य निरन्तर समीपमें रहनेवाले कवि (शुक्र ) के तथा चन्द्रके पुत्र ग्रहके साथ हर्षके साथ समयको बिताते हुए प्रतिदिन उदयाचलको प्राप्त करते हैं उसी प्रकार निरन्तर निकट रहनेवाले कवि ( काव्यकर्ता ) और बुध ( विद्वान् ) के साथ हर्षसे समयको बिताते हुए प्रतिदिन उन्नतिको प्राप्त करते थे // 17 // टिप्पणी-पटीयान् = अतिशयेन पटुः, पटु + ईयसुन् / दिनेश्वरश्रीः = दिनस्य ईश्वरः ( ष० त० ), तस्य इव श्रीर्यस्य सः ( व्यधिकरण-बह० ) / अभ्यासं 'सदेशाभ्याससविधसमर्यादसवेशवत् / इत्यमरः। उपेयुषा-उपेयायेति उपेयिवान्, तेन, "उपेयिवाननाश्वाननूचानश्च" इस सूत्रसे उप-उपसर्गपूर्वक इण् धातुसे भूतमात्रमें लिट्, उसके स्थान में क्वसु प्रत्यय और इट् आगम / कविना = "उशना भार्गवः कविः" इति, “संख्यावान्पण्डितः कविः" इति चाऽमरः / बुधेन = "रोहिणेयो बुधः सौम्य" इति “सन्सुधीः कोविदो बुधः" इति चाऽमरः / “समम्" पदके साथ योग होनेसे दोनों पदोंसे “सहयुक्तेऽप्रधाने" इस सबसे तृतीया / नयन् = नयतीति, नी+लट् ( शतृ ) / दधी = धा+लिट् + तिप् / इस पद्यमें “दिनेश्वर श्रीः" इस पदमें उपमा तथा "कविना" और "बुधेन" इन दोनों पदों में श्लेष होनेसे दो अलङ्कारोंकी संसृष्टि है // 17 // अधोविधानात्कमलप्रवालयोः. शिरःसु धानावखिलक्षमाभुजाम् / पुरेदमूवं भवतीति वेषसा पदं किमस्याऽखितमवरेन्सया // 18 //