________________ चतुर्थः सर्गः टिप्पणी-अतितराम् =अति+तरप् + आमुः। विरहज्वरं-विरहस्य ज्वरः, तम् (ष० त० ) / विविधोक्तिविगर्हणं-विविधाश्च ता उक्तयः (क० धा० ), ताभिः विगर्हणम् ( तृ० त० ) / हृदयभाज=हृदय+भाज्+ ण्वि + अम् ( उपपद०)। उपालभत=उप+आ+लभ+लङ्ग+त // 4 // हदयमाश्रयसे बत! मानक, ज्वलयसीत्थमन! तदेव किम्? स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि ? हताश ! हुताऽशवत् // 75 // अन्वयः-हे अनङ्ग ! मामकं हृदयम् आश्रयसे, तदेव इत्थं किं ज्वलयसि ? बत ! हे हताश ! स्वयं हुताऽशवत् क्षणदग्धनिजेन्धनः ( सन् ) क्व भवितासि ? . व्याख्या-हे अनङ्ग हे काम ! मामकंमदीयं, हृदयं हृत्, आश्रयसे=आश्रित्य वर्तसे, तत् एव मद्धदयम् एव, इत्थम् =अनेन प्रकारेण, किं ज्वलयसि=किं दहसि ? हे हताश हे नष्टाऽभिलाष ! दुर्बुद्धे इति भावः / स्वयं त्वम्, हुताऽशवत् =अग्निवत्, क्षणदग्धनिजेन्धनः = अल्पक्षणभस्मीकृतस्वाश्रयः सन्, क्व=कुत्र, भवितासि=भविष्यसि ? ___ अनुवाद-हे काम ! मेरे हृदयका आश्रय लेते हो, उसीको इस प्रकार क्यों जलाते हो ? हाय ! हे दुर्बुद्धे ! तुम अग्निके समान क्षणभरमें अपने आश्रय( मुझ )को जलाकर कहां रहोगे? / टिप्पणी-मामकं-मम इदं, तत्, अस्मद् शब्दके स्थानमें "तवकममकावेकवचने" इस सूत्रसे ममक आदेश / हताश-हता आशा यस्य सः, तत्सम्बुद्धो ( बहु० ) / हुताऽशवत् =हुतम् अश्नातीति हुताशः, हुत + अश + अण् ( उपपद०)। हुताऽशेन तुल्यं, हुताश+ वतिः / क्षणदग्धनिजेन्धनः=निजं च तत् इन्धनम् ( क० धा० ), क्षणं दग्धम् (सुप्सुपा० ), क्षणदग्धं निजेन्धनं येन सः ( बहु० ) / भवितासि = भू+लुट् + सिप् / हे कामदेव ! दूसरेकी हिंसा करनेके व्यसनसे तुम अपने नाशको नहीं देखते हो, इस आशयसे "हताश" ऐसे सम्बुद्धिपदका प्रयोग किया गया है / इस पद्यमें उपमा अलङ्कार है / / 7 / / पुरभिदा गमितस्त्वमदृश्यतां त्रिनयनत्वपरिप्लतिशङ्कया। स्मर ! निरक्ष्यत कस्यचनाऽपि न त्वयि किमक्षिगते नयन स्त्रिभिः ? // 76 // अन्वयः-हे स्मर ! त्वम् ( अक्षिगतः ) पुरभिदा त्रिनयनत्वपरिप्लुतिशक्या, अदृश्यतां गमितः / ( किन्तु ) कस्यचन अपि अक्षिगते त्वयि त्रिभिः नयनै किन निरक्ष्यत ?