SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 60 नषधीयचरितं महाकाव्यम् ___व्याख्या-हे स्मर-हे काम ! त्वं भवान्, अक्षिगत इति शेषः / पुरभिदा-हरेण, त्रिनयनत्वपरिप्लुतिशङ्कया-तृतीयलोचनवैयर्थ्यभयेन, अदृश्य. ताम् अदर्शनीयता, गमित:=प्रापितः, नाशं प्रापित इति भावः / किन्तु कस्यचन अपि=यस्य कस्यचिदपि जनस्य, अक्षिगते= दृग्गोचरे, द्वेष्ये च, त्रिभिः=त्रिसंख्यकः, नयनः नेत्रः, किं न निरक्ष्यत-किमिति न निरीक्षितम् ? कोपस्य तृतीयनेत्रस्थानीयत्वात्त्वयि द्वेष्ये सति सर्वोऽपि जनस्त्रिनयनो जात इति भावः। अनुवाद-हे कामदेव ! तुम द्वेष्य होकर. रुद्रसे तृतीय नेत्र( अग्नि ) के व्यर्थ होनेके भयमें नाशको प्राप्त कराये गये हो। किन्तु जिस किसी भी जनके तुम्हारे नेत्रमें पड़ने पर ( वा द्वेष्य होने पर ) तीन नेत्रोंसे ( क्रोधके साथ दोनों नेत्रोंसे ) क्या नहीं देखा ? टिप्पणी-पुरभिदा=पुरं भिनत्तीति पुरभित्, तेन, पुर+भिद्+ क्विप् +टा ( उपपद०)। त्रिनयनत्वपरिप्लुतिशङ्कया= त्रीणि नयनानि यस्य सः ( बहु०), तस्य भावः, त्रिनयन + त्व, तस्य परिप्लुतिः ( 10 त०), तस्याः शङ्का, तया (ष० त०)। अदृश्यताम् =अदृश्य + तल्+टाप् + अम्, गमितः= गम् + णिच्+क्तः / अक्षिगते=अक्षि गतः, तस्मिन् ( द्वि० त० ) / निरक्ष्यत=निर्+ ईक्ष+ लङ् ( भावमें)+त। धातुके सकर्मक होने पर भी यहां पर कर्मकी विवक्षा "प्रसिद्धरविवक्षातः कर्मणोऽकमिका क्रिया।" इस - वचनके अनुसार नहीं हुई है // 76 // सहचरोऽसि रतेरिति विश्रुतिस्त्वयि वसत्यपि मे न रतिः कुतः ? अथ न सम्प्रति सङ्गतिरस्ति वामनुमृता. न भवन्तमियं किल // 77 // अन्वयः-(हे स्मर!) "रतेः सहचरोऽसि" इति विश्रुतिः। त्वयि वसति अपि मे कुतो रतिर्न ? अथ सम्प्रति वां सङ्गतिर्न अस्ति, इयं भवन्तं न अनुमृता किल। व्याख्या-(हे स्मर ! ) रतेः = रतिदेव्याः सन्तुष्टेश्च / सहचरः = सहचारी, असि=वर्तसे, इति - एवं, विश्रुतिः प्रसिद्धिः / परं त्वयि = भवति, वसति अपि=वासं कुर्वति अपि, हृदयस्थे सत्यपीति भावः / मेमम, कुतः=कस्मात्कारणात, रतिः न=प्रीतिः न, अथ अथवा, सम्प्रतिअधुना, वां-युवयोः / सङ्गतिः सहचरता, न अस्ति=नो वर्तते, कुतः? .
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy