________________ . नषधीयचरितं महाकाव्यम् टिप्पणी-नलविमस्तकितस्य-विगतो मस्तको यस्मात् स विमस्तकः ( बहु० ), विमस्तकः कृतो विमस्तकितः, विमस्तक + णिच् + क्तः / नलेन विमस्तकितः, तस्य (तृ० त०)। मृतिभिया=मृतेीः मृतिभीः, तया ( प० त० ) / उत्पततः उद्+पत् + लट् ( शतृ० ) + ङस् / कबन्धगलेन= कबन्धस्य गलः, तेन (ष० त० ) / तमोग्रहशिरः=तमश्वाऽसौ ग्रहः (क० धा० ), तस्य शिरः (10 त०)। तदसृग्दढबन्धनं = तस्य असृक (ष० त०), दृढं बन्धनं यस्य तत् ( बहु० ), तदसृजा दृढबन्धनम् ( तृ० त.)। कबन्धके गलेके खूनसे राहुका शिर कबन्धके धड़से जुड़ जाता तो उसके उदराग्निसे चन्द्र जीर्ण हो जाता, यह तात्पर्य है // 68 // सखि ! जरा परिपृच्छ तमःशिरः सममसौ वधताऽपि कबधताम् / . मगधराजवपुर्दलयुग्मवत् किमिति न प्रतिसीव्यति केतुना ? // 66 // अन्वयः-हे सखि ! जरां परिपृच्छ / असो कबन्धतां दधता केतुना समं तमःशिरः अपि मगधराजवपुर्दलयुग्मवत् किमिति न प्रतीसीव्यति ? व्याख्या-हे सखि हे वयस्ये ! जरांजरानाम्नी राक्षसीं, परिपृच्छ= अनुयुध्व, त्वमिति शेषः / असौ जरा, कबन्धताम् = शिरोरहितशरीरतां, दधता=धारयता, केतुना समं =केतुग्रहेण सह, तमःशिरः अपि राहुमस्तकम् अपि, मगधराजवपुर्दलयुग्मवत् =जरासन्धशरीराऽर्धभागयुगलम् इव, किमिति=केन कारणेन, न प्रतिसीव्यति =न सन्धत्ते / अनुवाद-हे सखि ! तुम जरा राक्षसीसे पूछो / वह (जरा) शिरसे हीन शरीरको धारण करते हुए केतु ग्रहके साथ राहुके शिरको भी जरासन्धके शरीरके दो भागोंके समान क्यों नहीं मिला देती है ? - टिप्पणी-कबन्धतां कबन्धस्य भावः कबन्धता,, ताम्, कबन्ध +तल्+ टाप्+अम् / दधता-धा+लट् ( शतृ )+टा। तमःशिरः=तमसः शिरः, तत् ( ष० त० ) / "तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुदः" इत्यमरः / मगधराजवपुर्दलयुग्मवत् =मगधानां राजा मगधराजः, वपुषः दले (प० त० ), मगधराजस्य वपुर्दले (ष० त० ), तयोयुग्मं (10 त०), तेन तुल्यं, मगधराजवपुर्दलयुग्म+वतिः। प्रतिसीव्यतिप्रति + षिव+लट+ तिप् / शिरका भागमात्र राहु और शरीर (धड़ ) मात्र केतु, उनको जोड़ देनेसे पहलेके समान स्थित उदराऽग्निसे चन्द्रमा जीर्ण हो जाता, यह तात्पर्य है।