________________ __चतुर्थः सर्गः टिप्पणो-स्वरिपुतीक्ष्णसुदर्शनविभ्रमात् = स्वस्य रिपुः (10 त० ), तीक्ष्णं च तत् सुदर्शनम् ( क० धा० ), स्वरिपोः ( विष्णोः ) तीक्ष्णसुदर्शनम् ( 10 त० ), तस्य विभ्रमः, तस्मात् ( ष० त० ), हेतुमें पञ्चमी / बलिकरम्भनिभं = बलेः करम्भः (10 त० ), "करोपहारयोः पुंसि बलि: पाण्यङ्गजे स्त्रियाम् / " इति "करम्भा दधिसक्तवः” इत्यप्यमरः / बलिकरम्भेण सदृशः, तम् ( तृ० त० ) / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 64 / / / वदनगर्भगतं न निजेच्छया शशिनमुमति राहुरसंशयम् / अशित एवं गलत्ययमत्ययं सखि ! विना गलनालबिलाऽध्वना // 65 // अन्वयः-हे सखि ! ( यद्वा ) राहुः वदनगर्भगतं शशिनं निजेच्छया न उज्झति, असंशयम् / ( किन्तु) अयम् अशित एव अत्ययं विना गलनालबिलाsध्वना गलति / व्याख्या-हे सखि हे वयस्ये ! ( यद्वा=अथ वा ) राहुः= विधुन्तुदः, वदनगर्भगतं=मुखाऽभ्यन्तरप्रविष्टं, शशिनं चन्द्रमसं, निजेच्छया=स्वेच्छया, न उज्झति=न त्यजति, असंशयं-संशयो नास्तीति भावः / (किन्तु ) अयं=शशी, अशित एव= गिलित एव, अत्ययं विना-नाशं विना, गलनालबिलाऽध्वना=कण्ठनाल विवरमार्गेण, गलति=निःसरति / राहोः शिरोमात्रत्वेन कण्ठनालविवरमार्गेणोदरसंयोगाऽभावेन दुःखप्रदस्य शशिनो भूयोऽभ्युदय इति भावः / ___अनुवाद -हे सखि ! अथवा राहु, मुखके भीतर पड़े हुए चन्द्रमाको अपनी इच्छासे नहीं छोड़ता है, इसमें संशय नहीं है। किन्तु चन्द्रमा राहुके निगलनेके साथ ही बिना कष्टके ( पेटके न होनेसे ) कण्ठनालके छिद्रके मार्गसे निकल जाता है। टिप्पणी-वदनगर्भगतंवदनस्य गर्भः (10 त०), तं गतः, तम् (द्वि० त०)। निजेच्छया-निजस्येच्छा, तया (ष० त०)। असंशयंसंशयस्याऽभावः, अर्थाऽभावमें अव्ययीभाव / अशित: अश् + क्तः / गलनाल. बिलाऽध्वना=गलस्य नाल: (10 त०), तस्य बिलं (10 त०), तस्य अध्वा, तेन ( 10 त० ) / गलति=गल+लट् + तिम् / इस पद्यमें प्रतीयमानोत्प्रेक्षा है // 65 // ऋजुदृशः कथयन्ति पुराविवो मधुभिदं विल राहुशिरश्छिदम् / विरहिमूर्धमिदं निगदन्ति न ! क्व नु शशी यदि तज्जठराऽनल: ? // 66 //