________________ 48 नैषधीयचरितं महाकाव्यम् अन्वयः-आणवम् असितं विषम् एकसुराऽशितम् अपि पुनः न अभूत् / एष आर्णवं विशदं विषं (तु ) सुरैः निपीय जनितक्षयम् अपि स्वयं नवं पुनः उदेति / __व्याख्या-आणवं = सामुद्रं, समुद्रोत्पन्नम् इत्यर्थः, असितं = कृष्णं, विषं = गरलं, कालकूटाख्यमित्यर्थः, एकसुराऽशितम् अपि =एकदेवभक्षितम् अपि, एकेन महादेवेन भक्षितम् अपीति भावः / पुनः= भूयः, न अभूतन अजनि / एषः=चन्द्रो नाम, आर्णवं =सामुद्रं, समुद्रादुत्पन्न मिति भावः / विशदं - शुक्लं, विषंगरलं तु, सुरैः=देवः, वह्नयादिभिरिति भावः / निपीय = पीत्वा, जनितक्षयम् अपि = कृतनाशम् अपि, स्वयम् =आत्मना, नवंनतनं सत, पुनः=भूयः, उदेति = आगच्छति / अनुवाद-समुद्रसे उत्पन्न काला विष ( कालकूट) तो एक देव ( महादेव.) से खाये जानेपर फिर उत्पन्न नहीं हुआ। यह चन्द्रनामक समुद्रसे उत्पन्न विष तो अग्नि आदि देवताओंसे पान कर नष्ट होकर भी स्वयं नया होकर फिर उत्पन्न होता है। टिप्पणी-आर्णवम् = अर्णवे जातं, तत् "तत्र जातः" इससे अण् प्रत्यय / असितं न सितम् ( नन्०)। एकसुराऽशितम् एकश्चाऽसौ सुरः (क० धा०), तेन अशितम् (तृ० त०) / निपीय-नि+पीड्+क्त्वा (ल्यप् / 'प्रथम पिबते वह्निः" इत्यादि श्लोकके अनुसार प्रथम कलाको वह्नि (अग्नि ) पान करते हैं, इत्यादि क्रमसे दिवसोंसे पान करके भी यह तात्पर्य है / जनितक्षयं= जनितः क्षयो यस्य तत् (बहु०)। उदेति- उद्+इण+लट् + तिप् / इस पद्य में व्यतिरेक अलङ्कार है / / 61 // विरहिवर्गवधव्यसनाऽऽकुलं कलय पापमशेषकलं विधुम् / सुरनिपीतसुधाकमपापकं, ग्रह विदा विपरीतकथाः कथम् ? // 62 // अन्वयः-( हे सखि ! ) विरहिवर्गवधव्यसनाऽऽकुलम् अशेषकलं विधु पापं कलय, सुरनिपीतसुधाकं विधुम् अपापर्क कलय / ग्रहविदः कथं विपरीतकथाः ? ___व्याल्या-(हे सखि ! ) विरहिवर्गवधव्यसनाऽऽकुलम् = वियोगिसमूहहननाऽऽसक्तिव्यग्रम्, अशेषकलं परिपूर्णकलं, विधुं=चन्द्र, पापं पापग्रह, कलय-विद्धि / सुरनिपीतसुधाकम् -अग्न्यादिदेवपीतकलं, क्षीणमिति भावः / विधुं= चन्द्रम्, अपापकं = पुण्यवन्तं, . सौम्यमिति भावः, कलय= विद्धि /