SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् निरुध्य =नि+रूध्+क्त्वा ( ल्यप् ) / निवास्यते-नि+वस् + णिच् + लट् + त ( कर्ममें ) / ईक्ष्यते = ईक्ष+लट् ( कर्ममें )+त // 57 // अयि ! ममैष चकोरशिशर्मनेर्वजति सिन्धूपिबस्य न शिष्यताम् ? अशिवमग्धिमधीतवतोऽस्य वा शशिकराः पिबतः कति शीकराः ? // 580 अन्वयः-अयि ! एष मम चकोरशिशुः सिन्धुपिबस्य मुनेः शिष्यतां न व्रजति ? अब्धिम् अशितुम् अधतीवतः पिबतः अस्य शशिकराः कति वा शीकराः? व्याख्या-अयि हे सखि ! एषः समीपतरवर्ती, मम=दमयन्त्याः / चकोरशिशुः-बालचकोरः, सिन्धुपिबस्य-समुद्रपायिनः / मुनेः ऋषेः अगस्त्यस्य, शिष्यतां = छात्रतां, न व्रजतिन गच्छति, काकुः व्रजतीत्यर्थः / अब्धिम् = समुद्रम्, अशितुं भक्षयितुं, पातुमिति भावः। अधीतवतः=अभ्यस्तवतः, अत एव पिबत:-धयतः, अब्धिपानप्रवृत्तस्येत्यर्थः / अस्य चकोरशिशोः, कति वा शीकराः=कियन्तो वा अम्बुकणाः ? ____अनुवाद-हे. सखि ! यह मेरा चकोरबालक समुद्र पीनेवाले मुनि( अगस्त्य )का शिष्य नहीं होगा? समुद्रको पीनेके लिए अभ्यास करनेवाले पीते हुए इसके लिए चन्द्रमाकी किरणें कितने अम्बुकण होंगे? टिप्पणी-चकोरशिश: चकोरस्य शिशः (10 त० ), विषकी परीक्षाके लिए राजभवन में चकोरशिशुको रखते हैं। विषको देखनेसे चकोरके नेत्र लाल होते हैं, ऐसा कामन्दकने कहा है। सिन्धुपिबस्य=पिबतीति पिवः, पा धातुसे "पाघ्राध्माधेड्दृशः शः" इस सूत्रसे श प्रत्यय, सिन्धोः पिबः, तस्य (ष. त० ) / अशितुम् =अश्+तुमुन् / अधीतवतः=अधि+इ+ क्तवतु+छस् / पिबतः-पा+लच् + शतृ+स् / शशिकराः=शशिनः कराः (10 त०)। इस पद्यमें अर्थापत्ति अलङ्कार है / / 58 // कुर करे गुरुमेकमयोधन बहिरितो मुकुरं कुरुष्व मे। विशति तत्र यदव विधुस्तदा सखि ! सुखावहितं धहि तं द्रुतम् // 5 // अन्वयः-हे सखि ! एकं गुरुम् अयोधनं करे कुरु, इतो बहिः मे मुकुरं च कुरुष्व / तत्र यदा विधुः विशति ( तदा एव ) सुखात् अहितं तं द्रुतं जहि / / व्याल्या-हे सखि=हे वयस्ये ! एकं गुरुं महान्तम्, अयोधनं मुद्गरं, करे-हस्ते, कुरु-विधेहि, बिभृहीत्यर्थः। इतः- अस्मात्, मत्प्रकोष्ठात् इति भावः / बहिः=बहिर्भागे, मेमम, मुकुरं च दर्पणं च, कुरुष्व =विधेहि /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy