SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः न्यधित तद्वदि शल्यमिव द्वयं विरहितां च तथाऽपि च जीवितम् / किमथ तत्र निहत्य निखातवान् रतिपतिः स्तनबिल्वयुगेन तत् // 41 // अन्वयः-रतिपतिः तद्धृदि विरहितां तथा अपि जीवितं च ( इति ) द्वयं शल्यम् इव न्यधित / अथ तत् स्तनबिल्वयुगेन तत्र निहत्य निखातवान् किम् ? ___ व्याख्या-रतिपतिः = कामदेवः, तदि =दमयन्तीहृदये, विरहितां= विगगितां, तथाऽपि =विरहितायां सत्याम् अपि, जीवितं च=जीवनं च, ( इति ) द्वयं द्वितयं, शल्यम् इव =शकुम् इव, न्यधित=निखातवान् / अथ= निखननाऽनन्तरं, तत् = शल्यद्वयं, स्तनबिल्वयुगेन=कुचश्रीफलयुग्मेन, तत्र- दमयन्तीहृदये, निहत्य =आहत्य, निखातवान् किम् ?=न्यधित किमु ? यथा लोके निखातं शकुं दाढर्याय पाषाणेन घ्नन्ति तद्वदिति भावः। ... ___ अनुवाद-कामदेवने दमयन्तीके हृदय में वियोगिभाव और जीवन-इन दोनोंको कीलके समान रख दिया / तब उन दोनोंको स्तनरूप दो बेलके फलोंसे दमयन्तीके हृदयमें ठोंककर स्थिर कर दिया है क्या? / टिप्पणी+रतिपतिः =रतेः पतिः (10 त० ) / तद्धदि = तस्या हृत्, तस्मिन् (प० त०)। विरहितांविरहिण्या भावो विरहिता, ताम्, विरहिणी+तल + टाप् + अम् / द्वयं द्वि + तयप् (अच्)+अम् / न्यधित == नि+धा+लङ् + त / “स्थाध्वोरिच्च" इससे इकार, "ह्रस्वादलात्" इससे सिचका लोप / स्तनबिल्वयुगेन =स्तनी एव बिल्वे ( रूपक० ), तयोर्युगं, तेन (10 त० ) / निहत्य - नि+हन् + क्त्वां ( ल्यप् ) / निखातवान् =नि+ खन् + क्तवतु+सु / इस पद्यमें पूर्वार्द्ध और उत्तरार्द्धमें दो उत्प्रेक्षाएँ और रूपक-इनका संसृष्टि अलङ्कार है / / 41 // अतिशरव्ययता मानेन तां निखिलपुष्पमयस्वशरव्ययात् / स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगाऽर्पणा // 42 // .. अन्वयः-ताम् अतिशरव्ययता निखिलपुष्पमयस्वशरव्ययात् फलानि अपि मुञ्चता मदनेन तदुरसि स्तनतालयुगाऽर्पणा अकारि स्फुटम् / / व्याख्या-तांदमयन्तीम्, अतिशरव्ययता=अतितरां लक्ष्यं कुर्वता, ( अत एव ) निखिलपुष्पमयस्वशरव्ययात् = सकलकुसुमरूपनिजबाणक्षयात्, फलानि अपि = सस्यानि अपि, मुञ्चता=क्षिपता, मदनेन =कामेन, तदु. Rसिदमयन्तीवक्षसि, स्तनतालयुगाऽर्पणा = कुचरूपतालफलयुग्माऽर्पणम्, 30 च० . .
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy