________________ नैषधीयचरितं महाकाव्यम् रतिपतिप्रहिताऽनिलहेतितां प्रतियती सुदती मलयाऽनिले। तदुरुतापभयातमृणालिकामयमियं भुजगाऽस्त्रमिवाऽऽदित // 40 // अन्वयः-सुदती इयं मलयाऽनिले रतिपतिप्रहिताऽनिलहेतितां प्रतियती तदुरुतापभयाऽऽत्तमृणालिकामयं भुजगाऽस्त्रम् आदित इव / व्याख्या-सुदती=सुन्दरदन्तयुक्ता सुन्दरी, इयं =दमयन्ती, मलयाऽनिले - दक्षिणपवने विषये, रतिपतिप्रहिताऽनिलहेतितां=कामप्रेरितवायव्याऽस्त्रता, प्रतियती-जानती, तदुरुतापभयाऽऽत्तमृणालिकामयं = वायव्यास्त्रबहुसन्तापभीतिगृहीतबिसलतास्वरूपं, भुजगाऽस्त्रं =पन्नगाऽस्त्रम् आदित इव = गृहीतवती किम् ? ___ अनुवाद-सुन्दर दन्तोंवाली. दमयन्तीने मलय पर्वतकी हवाको कामदेवसे प्रेरित वायव्यास्त्र जानकर उस अस्त्रके बहुत सन्तापके भयसे पद्मलतारूप सशस्त्रको मानों ले लिया। टिप्पणी - सुदती = शोभना दन्ता यस्या सा ( बहु० ), "वयसि दन्तस्य दतृ" इस सूत्रसे दन्तके स्थानमें दतृ आदेश और स्त्रीत्वविवक्षामें डीप् / मलयाऽनिले मलयस्य अनिलः, तस्मिन् ( 10 त०), विषय मे सप्तमी / रतिपतिप्रहिताऽनिलहेतितारतेः पतिः ( 10 त०), अनिलस्य हेतिः (10 त ), "हेतिः शस्त्र प्रहरणं ह्यायुधं चाऽस्त्रमेव च" इति हलायुधः / रतिपतिना प्रहिता ( तृ० त०), रतिपतिप्रहिता चाऽसौ अनिलहेतिः (क० धा०), तस्या भावः तत्ता, ताम्, रतिपतिप्रहिताऽनिलहेति+तल+टाप् + अम् / प्रतियती प्रत्येतीति, प्रति + इण+लट् ( शतृ )+की+सु। तदुरुतापभयाऽऽत्तमृणालिकामयम् = उरुश्चाऽसो तापः ( क० धा० ), तस्याः ( अनिलहेतेः ), उरुतापः (10 त०), तस्मात् भयं ( प० त० ), तेन आत्ता ( तृ० त० ), सा चाऽसो मृणालिका (क० धा० ), तदेव, तत्, तदुरुतापभयाऽऽत्तमृणालिका+ मयट् ( स्वार्थमें )+ अम् / भुजगास्त्रं भुजगस्य अस्त्रं, (10 त०)। आदित-आङ्-उपसर्गपूर्वक "डुदान दाने" धातुसे लु+त, "स्थाध्वोरिच्च" इसरे इकार और "हृस्वादङ्गात्" इससे सिच्का लोप / दमयन्तीने मलयकी हवाको कामदेवसे छोड़ा गया वायव्यास्त्र जानकर उसको हटानेके लिए कमललतारूप सस्त्रिको ले लिया। सर्प हवाको पीता है, यह तात्पर्य है। इस पद्यमें रूपक और उत्प्रेक्षाका सङ्कर अलङ्कार है / / .40 // .