________________ चतुर्थः सर्गः 26 अन्वयः-नलमनः मोहवशेन तदाननं शशिकान्तं न अबोधि खलु ? इतरथा शशिनः अभ्युदये ततः अश्रुमयं पयः कथम् असुनुवत् ? .. व्याख्या-नलमनः नलचित्तं, मोहवशेन-अज्ञानवशेन, विरहप्रयुक्तेनेति शेषः / तदाननंदमयन्तीमुखं ( कर्म ), शशिकान्तम् = इन्दुसुन्दरं चन्द्रकान्तमणि च, न अबोधि खलु =न अबुद्ध किम् ? अबुध्यत एवेति भावः / इतरथाअस्य असत्यत्वे, शशिनः=चन्द्रमसः, अभ्युदये=उदये सति, ततः=दमयन्तीमुखात, अश्रुमयम् =बाष्परूपं, पयः=जलं, कथंकेन प्रकारेण, असुस्रवत् =. स्रवति स्म / अनुवाद-नलके मनने विरहके कारण मोहवश दमयन्तीके मुखको चन्द्रकान्त ( चन्द्रमाके समान सुन्दर और चन्द्रकान्तमणि ) नहीं समझा क्या ? अर्थात् समझा ही। नहीं तो चन्द्रमाके उदय में दमयन्तीके मुखसे आँसूस्वरूप जल कैसे टपका? टिप्पणी-नलमनः=नलस्य मनः ( 50 त० ), यह कर्तृपद है / मोहवशेन = मोहस्य वशः, तेन (10 त० ) / तदाननं तस्या आननं, तत् (10 त० ) / अबोधि = बुध + लङ्+त / इतरथा इतर + थाल, अश्रुमयम् =अश्रु+ मयट् + सु / असुनुवत् =नु+लु+च्लि ( चङ्)+तिप् / चन्द्रमाके उदय में दमयन्तीके मुखमण्डलसे जल निकलनेसे दमयन्तीका मुख चन्द्रकान्त मणि है, यह सत्य है / चन्द्रोदय में कामतापकी अधिकतासे दमयन्ती रोयी, यह तात्पर्य है / / 36 / / रतिपतेविजयाऽस्त्रमिषुर्यथा जयति भीमसुताऽपि तथैव सा। स्वविशिखानिव पश्चतया ततो नियतमहत योजयितुं स ताम् // 37 // अन्वयः-रतिपतेः यथा इषुः विजयास्त्रं जयति, तथा एव सा भीमसुता अपि ( विजयाऽस्त्रं स सती जयति ) / ततः स्वविशिखान् इव तां पञ्चतया योजयितुम् ऐहत नियतम् / ब्याण्या--रतिपतेः कामस्य, यथा=येन प्रकारेण, इषुः=बाणः, पुष्प. रूप इति भावः / विजयाऽस्त्र=विजयाऽऽयुधं, जयति = सर्वोत्कर्षेण वर्तते, तथा एव = तेन प्रकारेण एव, सा=पूर्वोक्ता, प्रसिद्धा वा, भीमसुता अपिदमयन्ती अपि, विजयाऽस्त्रं सती जयतीति शेषः / ततः तस्मात्कारणात्, सः=रतिपतिः कामः / स्वविशिखान् इव=आत्मबाणान् इव, तांदमयन्तीं,