________________ नंषधीयचरितं महाकाव्यम् अन्वयः-स्मरहुताऽशनदीपितया तया बहु सरसं सरसीरुहं मुहुः श्रयितुम् अर्धपथे कृतम् अन्तरा श्वसितनिर्मितममरम् उज्झितम् / व्याल्या-स्मरहताऽशनदीपितया=कामाऽग्नितप्तया, तया = दमयन्त्या, बहु =अधिकं, सरसम् आर्द्र, सरसीरुहं = कमलं, मुहुः=वारं वारं, श्रयितुं सेवितुं, शैत्यायेति शेषः। अधुपथे = अर्धमार्गे, कृतम् =आनीतं सत्, अन्तरा=मध्ये, श्वसितनिर्मितमर्मरं - दमयन्तीनिःश्वासकृतमर्मरशब्दं सद, उज्झितं त्यक्तं, वैरस्यादिति शेषः / तथोष्णो दमयन्त्या निःश्वास इति भावः / ___अनुवाद-कामाऽग्निसे संतप्त दमयन्तीसे अधिक आई कमलको बारं. बार शैत्यके लिए सेवा करनेके लिए आधे मार्ग में लाये जानेपर मध्य में उनके लम्वे श्वाससे सूखकर मर्मर शब्दवाले उसको उन्होंने छोड़ दिया। टिप्पणी-स्मरहुताऽशनदीपितया स्मर एव हुताशनः ( रूपक० ), तेन दीपिता, तया ( तृ० त० ) / श्रयितुं श्रि + तुमुन् / अर्धपथे-पथ अर्धम् अर्धपथम्, तस्मिन्, “अर्ध नपुंसकम्" इस सूत्रसे समास, "ऋक्पूरब्धू पथामानक्षे" इससे समासान्त अप्रत्यय / श्वसितनिर्मितममरं=श्वसितेन निर्मित: (तृ० त०), श्वसित निर्मितो मर्मरो यस्य तत् (बहु०), "अथ मर्मरः / स्वनिते वस्त्रपर्णानाम्" इत्यमरः / उज्झितम् = उज्झि + क्तः (कर्ममें ) / इस पद्यमें दमयन्तीके गर्म निःश्वाससे सूखकर कमलका मर्मर शब्दयुक्त होनेके अस. म्बन्धमें भी सम्बन्धकी उक्तिसे अतिशयोक्ति अलङ्कार है // 29 // . प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किन्स्विति / जगवतुनिहिते हृदि नीरजे दवयुकुडमलनेन पृथुस्तनीम् // 30 // अन्वयः-हृदि निहिते नीरजे दवथुकुड्मलनेन पृथुस्तनी "तव स्तनयुगम् एवं प्रियकरग्रहम् अवाप्स्यति किं तु ताम्यति" इति जगदतुः ( नूनम् ) / __ज्याल्या-हृदि वक्षसि, निहिते =न्यस्ते, दमयन्त्येति शेषः / नीरजे= क्रमले, दवथुकुड्मलनेन = परितापमुकुलनेन, पृथुस्तनी = विशालकुचां, दमयन्तीमिति भावः / तव भवत्याः, स्तनयुगं=कुचयुग्मम् ( कर्तृपदम् ), एवम् =अनेन प्रकारेण, प्रियकरग्रह-नलपाणिसम्बन्धम्, अवाप्स्यतिप्राप्स्यति, किं तु किमर्थ, 'ताम्यति =ग्लायति, इति, जगदतुः कथयामासतुः, नूनमिति शेषः।