________________ 10 . नैषधीयचरितं महाकाव्यम् ____ व्याख्या-शूकशिखा=कण्टकाऽनं, पदे = चरणे, निविशते यदि प्रविशति चेत्, सा-प्रविष्टा शूकशिखा, कियतीम् इव=किं परिमाणाम् इव, व्यधां= व्यथां, पीडामित्यर्थः / न सृजति=न उत्पादयति, महती व्यथां सृजतीति भावः / तुपरन्तु / अवनिभृत् राजा ( नलः ) पर्वतश्च, हृदि हृदये, दमयन्त्या इति शेषः / निविश्य =प्रविश्य, स्थितः=वर्तमानः ( सन् ), मृदुतनो:= कोमलाङ्गयाः, दमयन्त्या इत्यर्थः, तां तथाविधां, व्यधामिति भावः, कथं= केन प्रकारेण, न वितनोतुन सृजतु, वितनोत्वेवेति भावः / अनुवाद-कांटेकी नोक भी पैर में घुस जाती है तो वह कैसी पीडा नहीं करती है ( करती है। परन्तु राजा ( एक पक्षमें पर्वत ) हृदयमें घुसकर अवस्थित होते हुए कोमल शरीरवाली दमयन्तीको वैसी पीडा क्यों नहीं करेंगे? टिप्पणी-शूकशिखा= शूकस्य शिखा ( 10 त०)। "शूकोऽस्त्री श्लक्ष्णतीक्ष्णाऽने" इत्यमरः। निविशते-नि+विश् + लट् +त, "नेविंशः" इस सूत्रसे आत्मनेपद हुआ है / इव=यह पद वाक्यालङ्कारमें है। अवनिभृत् = अवनि बिभर्तीति, अवनि+भृ+क्विप् ( उपपद० )+सु / निविश्य=नि+ विश्+क्त्वा ( ल्यप् ) / मृदुतनोः मृदुः तनुः यस्याः सा, तस्याः ( बहु० ) / वितनोतु=वि-तनु+लोट् +तिप् / इस पद्यमें पैरमें सूक्ष्म कण्टकके घुसनेमें भी दुःख दुःसह होता है तो कोमलाङ्गी दमयन्तीके हृदय में महाकाय राजा नलके प्रवेश करनेसे क्या कहना है ? इस प्रकारसे कमुत्यन्यायसे अर्थापत्ति अलङ्कार है // 11 // मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयाऽन्तरुपेतयोः। प्रहणशक्तिरभूदिदमीययोरपि न सम्मुखवास्तुनि वस्तुनि // 12 // अन्वयः-मनसि सन्तं प्रियम् ईक्षितुं स्पृहया अन्तः उपेतयोः इव इदमी... ययोः नयनयोः सम्मुखवास्तुनि अपि वस्तुनि ग्रहणशक्तिः न अभूत् / / ज्याल्या-मनसि-हृदये, सन्तं-वर्तमान, प्रियंवल्लभं नलम्, ईक्षितुं द्रष्टं, स्पृहया - इच्छया, अन्तः=अभ्यन्तरं, हृदयदेशमित्यर्थः, उपेतयोः इव = प्रविष्टयोः इव, इदमीययोः अस्याः ( दमयन्त्याः ) सम्बन्धिनोः, नयनयोः नेत्रयोः, सम्मुखवास्तुनि अपि पुरोवर्तिनि अपि, वस्तुनि=पदार्थे, ग्रहणशक्तिः = साक्षात्कारसामर्थ्य, न अभूत् =न अभवत्, भैमी नलव्यासङ्गान किश्चिदन्यदद्राक्षीदिति भावः /